Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
काव्यमाला |
शिष्टः । मालां स्रजं दधत् दधानः । यां मालामलीनां भ्रमराणामाली पटली उदारा प्रचुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थ लीना लिष्टा सती अदधत्पीतवती । किंभूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः । आलानवद्बाहू यस्य सः । सुष्ठु उचिता या उमा कीर्तिस्तया चितो व्याप्तः । रुचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुः शरीरं आपत्रा विपदो रक्षिका । किंभूता । देवानां संबन्धिनी या राजीवराजी स्वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पार्श्वः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रोटो रवो देशनाध्वनिर्यस्य सः । नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो प्रेरको न भवतीत्यर्थः ॥ राजी राजीववत्रा तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे भीतिहृद्यातिहृद्या । सारा साराज्जिनानामलममलमतेर्बोधिका माधिकामा
दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥ ९ 11
राजी श्रेणी राजीववत्कमलवद्वत्रं यस्याः सा । तथा तरलतरलसत्केतवः कम्प्रविराजमानध्वजा रङ्गतां चलतां तुरङ्गाणां व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः कृताधिरोहणा वा ये योधाः सुभटास्तैराचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्रामस्तन या भीतिर्भयं तां हरतीति सा । या अतिहृद्या अत्यन्त हृदयंगमा । सारा उत्कृष्टा । सा यच्छन्द निर्दिष्टा । आराहूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् | अलमत्यर्थम् । अमला मतिर्यस्य तस्य बोधिका बोधजनका । मा मामू अधिको यो आमो रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्व कालाननं यममुखं मरणं च जननं च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्यां सा । असमाना गुणैरसदृशा । या जिनानां राजी रणे भीतिहत्सा अव्यादिति संबन्धः ॥
सद्योऽद्योगभिद्वागमलगमलया जैनराजीनराजी
नूता नूतार्थधात्रीह ततहततमः पातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा
देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ ९१ ॥ जिनराजानां संबन्धिनी जैनराजी वाग्वाणी ते तुभ्यं मुदं देयात् । किंविशिष्टा । सद्यः शीघ्रं असन्तो ये योगा मनोवाक्कायव्यापारास्तान् भिनत्तीति सा । अमलानां गमानां लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतान्नवीनानर्थान् दधातीति सा । इह पृथिव्याम् । ततं विपुलं हतं ध्वस्तं तमोऽज्ञानं पातकं पाप्मा यया सा । अपातः पतनरहितः कामश्च यया । यद्वा पृथग्विशेषणम् न विद्येते पातका मौ यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा
For Private and Personal Use Only

Page Navigation
1 ... 325 326 327 328 329 330 331 332