Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्विंशतिजिनस्तुतिः । १६१ हे तीर्थकृत्, ते तव मते शासने भारती विश्ववर्ये निकाय्ये वासमाश्रयम् । मोक्षमित्यर्थः । वितीर्यात्तरामिति संबन्ध: । भारती कथंभूता । परशासनध्वान्तसूर्यसमा । भूरिभङ्गैरर्थविकल्पैर्गभीरा | निकाय्ये कथंभूते । अहतिमति अविद्यमानहनने । मते शासने आधारभूते । यद्वा अहति अविद्यमानघातम् । एतद्वासस्य विशेषणम् । अतिमते अतिशयेनाभिप्रेते । हि स्फुटम् । ते तव । शस्यमानस्य स्तूयमानस्य । सदा नित्यम् । अतनवो बहुतरा अतीता आपदो यस्य तस्यामन्त्रणं अतन्वतीतापत् | आनन्दधानस्य प्रमोदस्थानस्य । सा इत्थंभूता । अमानिनो निरहंकारस्य । नौस्तरणिः । महति विस्तीर्णे । हे हित प्रियकारिन् । यद्वा मतिमता मनीषिणा ईहिता । ईशस्य स्वामिनः । वा इवार्थे भिन्नक्रमश्च । मानस्य पूजायाः संसद् वा सभेव । तापदानं संतापखण्डनमातन्बती । मामानि प्रियाणि दधानस्य । नोऽस्माकम् ॥ Acharya Shri Kailassagarsuri Gyanmandir सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे परमवसुतराङ्गजा रावसन्नाशिताराति भाराजिते भासिनी हारतारा बलक्षमदा । क्षणरुचिरुचिरोरुचञ्चत्सटासंकटोत्कृष्ट कण्ठोद्धटे संस्थिते भव्यलोकं त्वमम्बा २१ म्बिके परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारताराबलक्षेऽमदा || ९६ ॥ हे सवेगनतदेववधूजनस्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे कर्बुरे क्रमाम्भोरुहे चरणकमले यस्यास्तस्याः संबोधनम् । परमवसुतराङ्गजा अतिशयेन परमवसू परमतेजसो अङ्गजौ पुत्रौ यस्याः सा । रावेण ध्वनिना सम्यग् नाशितोऽदर्शनं नीतो अरातिभारः शत्रुवर्गो यया सा । अजितेऽपराभूते । भासिनी भासनशीला । हारतारा हारोज्ज्वला । बलं क्षेमं च ददाति या । सिंहे कथंभूते । क्षणरुचिरुचिराभिर्विद्युद्दीप्तिभिरिव रुचिराभिः उर्वीभिः चञ्चन्तीभिः सटाभिः संकट उत्कृष्टो यः कण्ठस्तेनोद्भटे । हे अम्ब मातः । हे अम्बिके देवि । परमुत्कृष्टमव रक्ष । सुतरामत्यर्थम् । गजारौ सिंहे । असन्ना अखिना । संस्थिता । शितस्य तनूकृतस्य आरस्येव पित्तलस्येव अतिशयेन भा यस्याः सा । राजिते भ्राजिते । भासमानहमनक्षत्रधवले । अमदा मदरहिता । हे अम्बिके सिंहे संस्थिते सुतरां त्वं भव्यलोकमवेति संबन्धः ॥ इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विंशतिजिनस्तुतिः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331 332