Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
सङ्गाद्यो मोदः स नास्ति यस्यासी असङ्गमोदः । स्वतन्त्रसुख इत्यर्थः । हे अरत अनासक्त । हे अरोदित रोदनहीन । शोकरहितेत्यर्थः । हे अनङ्गन अङ्गनारहित । हे आ
व आर्यानवति यस्तदामन्त्रणम् । धाम्नि कथंभूते। लीलानां विलासानां पदे स्थाने । हे इत्यामन्त्रणे । भवान् कथंभतः । क्षितामः क्षपितरोगः । हे हित हितकारिन् । पुनः कथंभूतः । अक्षोभवान् न भयान्वितः । हे वीर, भवान्मम निर्वाणशर्माणि वितरत्विति संबन्धः ॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं सार्हतां संहतिर्भक्तिभाजां भवाम्भोधिसंभ्रान्तभव्या
वलीसेवितासदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ॥
समवसरणं धर्मदेशनास्थानं यस्याः अत्र अस्मिन् अराराट् भृशमराजत सा अर्हता ततिर्भक्तिभाजां समीहितं वितरतु । समवसरणं कथंभूतम् । स्फुरत् केतुर्धर्मध्वजश्चक्रं धर्मचक्रं आनको देवदुन्दुभिः अनेकपद्मानि सुरकृतकमलानि इन्दुरुक्चामराणि चन्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयी प्राकारत्रयं प्रधानावनमदशोकद्रुमः पृ. थिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा कान्तिस्तया गुरु महाहम् । पुन: किंभूतम् । परेता अपगता अहिताः शत्रवो येषां तैरारोचितं शोभितम् । अथ वा परा प्रधाना इताहिता गतशत्रुरित्यर्हतां संहतेविशेषणे । आरोचितं शोभितम् । संहतिः कथंभूता। भवाम्भोधौ संसारसमुद्रे संभ्रान्ता आकुलीभूता या भव्यावली तया सेविता । पुनः कथंभूता । सदवना सोपतापा च मदशोकाभ्यां पृथ्वी वितता च या न भवति । ईक्षणानि चढूंषि ज्ञानानि वा प्राति पूरयति सा । यशसा भातानि शोभितानि पत्राणि वाहनानि प्रभजन्ते ये उर्वराराजः पृथ्वीपतयः परेताः पिशाचा अहयो नागास्तारा ज्योतिष्कास्तेषामुचितं योग्यम् । समवसरणविशेषणमिदम् ॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्य निकाय्ये वितीर्यात्तरामहति मतिमते हि ते शस्यमानस्य वासं सदा तन्वतीतापदानन्दधानस्य
सामानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जजनोत्तारनौीरतीतीर्थकृत् महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सा
मानि नः ॥ ९५॥
For Private and Personal Use Only

Page Navigation
1 ... 327 328 329 330 331 332