Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विशतिजिनस्तुतिः ।
१५७ हार्णवेऽपि हिता सुखकारिणी । शास्त्री शिक्षयित्री । यस्याश्च सर्वत: सर्वासु दिक्षु सारमहो सारतेजो दधाव प्रससार । किंभूतम् । पिहिता आच्छादिता आशास्त्रियो दिग्वनिता विहाय आकाशं च येन । तत् । अदितमखण्डितम् । सा जिनानां राजी भवा. यासं संसारक्लेशं नोऽस्माकं हरतु ॥
कुर्वाणाणुपदार्थदर्शनवशाद्भावत्प्रभायास्त्रपा
मानत्या जनकृत्तमोहरत मे शस्तादरिद्रोहिका । अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां
मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका ॥ ८७ ॥ हे जिनपते, तव भारती वाणी मे मम अरिद्रोहिका बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्भयात् । किविशिष्टा । अणवः सूक्ष्माः पदार्था जीवाजीवादयस्तेषां दर्शनवशात्प्रकाशनात् भास्वत्प्रभायाः सूर्यकान्तेस्त्रपां लजां कुर्वाणा । आनत्या प्रणामेन हेतुभतया जनानां कृत्तश्छिन्नो मोहो रतं च येन तस्य संबोधनम् । शस्ता प्रकृष्टा । अदरिद्रा आक्ष्या उहास्तर्का यस्याः सा अदरिद्रोहिका । अक्षोभ्या अपराभवनीया । प्रोन्मा. दिनां दर्पवतां परवादिनां मानस्याहंकारस्य त्याजनं मोक्षणं करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे ईश नेतः ।।
हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागम
द्विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूति वितनोतु नोऽर्जुनरूचिः सिंहेऽधिरूढोल्लस
द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ ८ ॥ यस्या अम्बाया जनो लोको विश्वेन जगता सेवितयोस्ताम्रयो रक्तयोः पादयोश्चर. णयोः परतां तदेकशरणतामभ्यागमज्जगाम साम्बा नोऽस्माकं भूतिं संपदं वितनोतु । किंभूता । हस्ते आलम्बिता चूतलुभिरेव लतिका यया सा । वाचा वाण्या रिपूणां त्रासं करोतीति । अर्जुन काञ्चनं तद्वद्रुचिः कान्तिर्यस्याः सा । सिंहे कण्ठीरवेऽधिरूढा आसीना । उल्लसन् प्रसरन् विश्वासो यस्माद्यस्य वा। विततो विपुलो य आम्रपादपश्शूतवृक्षस्तत्र रता । चारिणौ विहरणशीलौ पुत्रौ यस्याः सा । असकृनिरन्तरम् ।।
मालामालानबाहुर्दधददधदरं यामुदारा मुदारा
ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजी
पत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ ८९ ॥ मा मां पातात् नरकादिपतनात्पातादक्षतात् । स पार्श्वस्त्रयोविंशो जिनः । किंवि
For Private and Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332