________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
९४
न्यत्कालिक गाढा योगसाध्यमुत्कालिकमनागाद्यायोगसाध्यं ध्यायामि । श्रुतं हि द्विधाअङ्गप्रविष्टमनङ्गप्रविष्टं च । ......... 11
यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः ।
सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥ ४१ ॥ यस्या अद्याप्येको षोडश पश्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवतीं संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड सिद्धप्राभृतवसुदेवहिण्डीश्च ॥ ४२ ॥ विशेषणवती संपत् । एतान्ग्रन्थानहं वन्दे ॥
कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि ।
समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ ४३ ॥ कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरिचरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दुप्रायाणि ||
व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि ।
सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥
व्याकरणादिकं मिथ्यादृग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥
सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च ।
तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्करोमि ॥ ४५ ॥ कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पञ्चनमस्कृतिं पञ्चनमस्कारं शासनप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥
इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः ।
वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता
स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६ ॥
इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा • माहात्म्यादयस्तेषां गणः समूहस्तस्य कथां जल्पनमेतत्स्वरूपां कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्ज्ञाता फलानां 'कुत्रचिन्नगरे बहुपद्मपरि
For Private and Personal Use Only