________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तागमस्तवः।
यनानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचारस्तत्प्रतिपादको ग्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादको ग्रन्थोऽपि व्यवहारः । ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे ॥
षट्सप्तपङ्क्तिविंशतिषगुणसप्तप्रकारकल्पानाम् ।
विस्तारयिता कल्पितफलदः स्तात्पञ्चकल्पो नः ॥ ३६ ॥ षट् सप्त पतिर्दशा विंशतिः षड्गुणसप्त द्विचत्वारिंशत् एतत्प्रकारा ये कल्पास्तेषां विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफलप्रदः स्तात् ॥
लेभे यद्यवहारेणाधुनान्त्येनापि मुख्यता । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥ ३७ ॥ अन्त्येनापि यद्व्यवहारेण यदाचारेणाधुना मुख्यता लेभे । एतदाधारेणैव प्रायश्चित्तवि. धिप्रवृत्तः । तं जीतकल्पं तीर्थश्रियः शासनरमाया आकल्पकल्पं वेषतुल्यं श्रये । व्यवहाराः पञ्च । आगमः श्रुतमाज्ञा धारणा जीतं चेति सन्ति । ................. । एवं जीतव्यवहारोऽन्त्यः ॥
अञ्चामि पञ्चघ्ननवप्रमाणमाचाम्लसाध्यं कुमतैरवाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ ३८ ॥ पञ्चन्ननवतिः पश्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (१) साध्यम् । कुमतैरवाध्यम् । महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिप्रापकत्वात् । मोक्षमार्गभूतं महानिशीथमञ्चामि पूजयामि ॥
नियुक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका ।
सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ ३९ ॥ नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुक्तानुक्तदुरुक्तार्थानां चिन्ताकारि । संग्रहणी सूत्रार्थस्य संग्राहिका । चूर्णिरवचूर्णिः । टिप्पन विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एषां सर्वेषामपि पूर्वोक्तग्रन्थानां नश्वेतसि सततं निवसन्तु ॥
परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकाभेदम् ।
ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥ ४० ॥ " परिकर्म सप्तभेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः का. लानुयोगः । प्रथमे जिनचक्रिदशारचरितानि । कालानुयोगेऽर्थतो जिनैः शब्दतो गणधरैश्च पूर्व रचितत्वात् पूर्वाणि चतुर्दशापि पूर्वगतम् । चूलिका उक्तशेषबाष्पा (१) । एते पञ्च भेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामि । च पुनर
For Private and Personal Use Only