________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
९२
यत्र संयमविराधनायाः फलं चन्द्रसूर्यौ राजानौ पूर्वभवे गृहीतदीक्षौ बहुपुत्रिकानपत्या पूर्वभवे प्रव्रजिता ..."अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्लयन्तु । यत्र ग्रन्थेऽङ्गिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिता: ( ? ) ||
श्रीह्रीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् ।
ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ ३० ॥ श्रीह्रीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूपं यत्र सूत्रितं कथितं ताः पुष्पचूलिका मे मम प्रसादानुकूलिकाः प्रसादतत्पराः सन्तु ॥
वृष्णीनां निषधादीनां द्वादशानां यशः स्रजः ।
पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम् ॥ ३१ ॥ निषधादीनां राज्ञां वृष्णीनामन्धक • वृष्णिदशा भक्तिपरायणानां शुभां दशां पुष्णन्तु ॥
नन्यनुद्योगद्वारयोः पूर्व कथनादार्याद्वयेन त्रयोदशप्रकीर्णकानि स्तौतिवन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ ३२ ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् । द्वीपाधिज्ञ तण्डुलवैतालिकं च नुमः ॥ ३३ ॥ अहं वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महाप्रत्याख्यानमातुरप्रत्याख्यानं च । संस्तार- चन्द्रवेध्यक-भक्तपरिज्ञा- चतुःशरणमिति समाहारः । वीरस्तवं-देवेन्द्रस्तवं गच्छाचारं गणिविद्यां द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ॥ शिवाध्वदीपायोद्धातानुद्धतारोपणात्मने ।
चित्रोत्सर्गापवादाय निशीथाय नमोनमः ॥ ३४ ॥
मोक्षमार्गदीपाय उद्घातो गुरुप्रायश्चित्तविशेषः । अनुद्धातस्तु तद्विपरीतः । लघुरि. त्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजनं तदात्मा स्वरूपं यस्य स तस्मै उद्धातानुद्धातारोपणात्मने । चित्रा विविधा उत्सर्गापवादा यत्र । उत्सर्गो मुख्यमार्गः । अपवाद: करणे प्रतिषिद्धसेवा | निशीथमर्धरात्रस्तद्वद्र होभूतं यदध्ययनं तन्निशीथं तस्मै निशीथाचाराङ्गपञ्चमचूडायै नमोनमः ॥
निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्य जातम् ।
दशा श्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ ३५ ॥ निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतं विस्तारितं वाच्यजातं यत्र तं दशाध्य
For Private and Personal Use Only