Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । १३३ येन तस्य संबोधनम् । तथा सह आमै रोगैर्वर्तते सामः । न तथा असामोऽरोगस्तस्य संबोधनम् । जनानभिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्ण तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्त जात्यतपनीयसमवर्णत्वाद्भगवतः ॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ २ ॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो गेगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापनं दाराः कलत्राणि कर्तरूपाणि नाचिक्षुपुर्न क्षोभयामासुः । 'दारा: प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमैर्विलासै रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिता: शोभिताः । सुमनसः पु. पाणि कर्तणि यत्पादौ यच्चरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दा. यमाना भ्रमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥ तजगतां पूज्यजिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिनयैरक्षोभं परवादिभिरजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छितमङ्गानामाचारादीनां जालं समहो यत्र तत् । तथा माद्यत्कवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भञ्जनैर्भङ्गकारिभिर्हेतुभिाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मिथोऽनुगमनादित्यत्र 'गुणादस्त्रियां न च' इति पञ्चमी ॥ शीतांशुत्विषि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलालसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332