Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । १४५ नित्यं सर्वदा हे तीर्थनाथ, तव वाणी मम हितानि क्रियात् । कथंभूता, हेतवो वस्तुगमकलिङ्गानि । उपपत्तयो युक्तयः । यद्वा हेतूनामुपपत्तयस्ताभिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिया । अपगता अपाया अनर्था यस्याः सा । आसाद्यमाना प्राप्यमाणा । अपापायैरासाद्यमाना वा । हे अमदन अकाम | सुधाया अमृतस्यासारो वेगवान्वर्षस्तद्वमनोहरा । श्रूयमाणामृतमित्र हृदयंगमेत्यर्थः । मोक्षपथस्नेहलैः स्वीकृता । न विद्यते पापं चायासश्चादिर्येषां ते पापायासादयस्ते च तेऽमानाश्च । मदाश्च नरास्तैर्वन्दित । है वसुधासार पृथिव्युत्कृष्ट । आहितानि स्थापितानि । क । हृदि मनसि ॥ रक्षः क्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभाख त्सन्नालीका सदा प्तापरिकरमुदिता साक्षमाला भवन्तम् । शुभ्रा श्री शान्तिदेवी जगति जनयतात्कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम् ॥ ४८ ॥ For Private and Personal Use Only - श्री शान्तिदेवी भवन्तं त्वां क्षमा उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् । कीदृशा । रक्षांसि पलादाः, क्षुद्राः शाकिनीप्रमुखाः, ग्रहाः शनैश्वरादयः । आदिशब्दाद्भूपालव्यालादयः । तेभ्यः प्रतितिरुपघातस्तस्याः शमनी नाशिका | वाहितं वाहनीकृतं तं सितं भास्वद्दीप्यमानं सत् शोभनं नालीकं कमलं यया सा | सतां साधुनामाता अविप्रतारिका । प्तापरिकरं जटामण्डलं तेन मुदिता प्रीता । सन्नं क्षीणमलीकमसत्यं यस्याः सा । सहाक्षमालया जपमालया वर्तते । इदं देव्याः कुण्डि - काया वा विशेषणम् । यस्या देव्याः कुण्डिका कमण्डलर्भाति । कथंभूता । करं हस्तं परि लक्षीकत्य उदिता उदयं प्राप्ता ॥ अपापदमलं धनं शमितमानमामो हितं नतामरसभासुरं विमलमालयामोदितम् । अपापदमलङ्घनं शमितमानमामो हितं न तामरसभासुरं विमलमालयामोदितम् ॥ ४९ ॥ विमलं जिनं वयमानयामः । पापं ददातीति पापदः । न पापदमपापदम् । पुण्यप्रदमित्यर्थः । अलमत्यर्थम् । यद्वा अपापो यो दम उपशमस्तं लातीति अपापदमलम् । घनं निश्छिद्रं अशेषमलक्षयोत्थं शं सुखमितं प्राप्तम् । हितं प्राणिगणस्य । नता नम्रीभूता अमरसभा देवपर्षद सुराश्च यस्य । विमला या माला पुष्पत्रक तयामोदितं सुरभीकृतम् । अपगता आपदो यस्मात्तम् । अलङ्घनं केनाप्यपराभूतम् । शमितो मानो येन तम् । आमोहितं न मोहेन समन्तान्न वशीकृतम् । तामरसं कमलं तद्वद्भासुरं दीप्यमानम् । (विमलं निर्दोषम् ) । आलये गृहविषये । अमोदितमहृष्टम् ॥ १२,

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332