Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । १५१ तम् । कृतान्तं यमम् । तुदन्तं व्यथमानम् । समुद्यन्समुल्लसन्दानमार्गों ज्ञानादीनां वितरणक्रमो यस्मिन् । अधैकविपदः पापैकविपद एवागा वृक्षास्ते धुता येन । अभङ्गमजेयम् । अत्र द्विरदेन श्लेषः । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभङ्गाः शोभन्ते । दामार्गो मदप्रवाहच स्यात् । स च कृतविनाशं च तुदति ॥ प्रचलदचिररोचिश्चारुगात्रे समुद्यत्सदसिफलकरामेऽभीमहासेऽरिभीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः सदसि फलकरा मेsभीमहासेरिभीते ॥ ६८ ॥ हे पुरुषदत्ते, ते तव प्रसादाः सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वच्चारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसद्भयामसिफलकाभ्यां खड्गखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभीमोऽरौद्रो हासो हसनं यस्याः । अरिभ्यो भीर्भयं तस्या इतिभूते । अभीनिर्भया या महासेरिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ॥ व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमान संसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभा क्संन्नदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥ यश्ववर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत् तं अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मीं किंभूताम् । अनेकपा गजास्तै राजितां शोभिताम् । जिनं किंभूतम् । द्रुतं विलीनं यत्सुवर्ण तद्वत्कान्तं कमनीयम् । आनन्दितं भूरिभक्तिभाजां संनमतां प्रणामकारकाणाममराणां मानसं चित्तं येन । तथा सारं श्रेष्टम् । दिग्विजयादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मीं कथंभूताम् । अनेकैः परैरजिताम् । अरं शीघ्रम् ॥ स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । 1 तं जिनराजविसर मुज्जासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमदारुणकरमपापदम् ॥ ७० ॥ सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूहं स्तौति । समन्ततः सर्वतः । स्मेत्यतीतार्थकम् । समवसरणभूमौ । किंभूता । सकलाः समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला म For Private and Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332