Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra १९४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | प्रणमत तं जिनत्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक् ॥ ७८ ॥ प्रणमत नमत तं जिनव्रजमर्हत्संदोहम् । कथंभूतम् । भयासं भयक्षयकारकम् । सुरेन्द्रवरयोषिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच्च तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः | महिनो धाम गृहम् | जिनव्रजविशेषणमेतत् । हिमधामा चन्द्रस्तस्य भया कान्त्या समाना रुग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघट्टनेन उद्गतोऽलकेषु केशेषु मलो यस्याः सा ।। त्वमवनताजिनोत्तमकृतान्त भवाद्विदुषो ST सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं स्वभिदधत्सुधियां चरणं वसदनु मानसं गमनयातत मोदयितः ॥ ७९ ॥ हे जिनोत्तम समय त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात्संसारात् । सत् शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम् । त्वं किंविशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयस्तेषां दयितोऽभीष्टः । मोक्षसुखप्रापकं चरणं चारित्रं स्वभिदधत्स्वाख्यन् । किंभूतम् । सुधियां मानसमनु लक्ष्यीकृत्य वसत्तिष्ठत् । हे गमनयातत गमा सदृशपाठाः नयाच नैगमादयस्तैरातत विस्तीर्ण । हे मोदयितः प्रमोदकारक ॥ अधिगतगोधिका कनकरुक्तव गौर्युचिता ङ्कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्ग तिलकैर्वदनं दधती कमलकरा जितामरसभास्यतु लोपकृतम् ॥ ८० ॥ गौरी देवी तव लोपकृतं विनाशकारकमस्यतु क्षिपतु । किंभूता । अधिगता प्राप्ता गोधिका देववाहनविशेषो यया सा । कनकवडुग्दीप्तिर्यस्य । वदनं मुखं दधती । किंभूतम् । मृगमदस्य कस्तूरिकाया ये पत्रभङ्गाः पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तैरुचिता योग्या अङ्का लाञ्छनानि यस्य तदुचिताङ्कम् | अलकैश्चिकुरै राजते इत्येवंशीलमलकराज तामरसभासि । अतुलमुपकृतं स्वकान्तिसंविभागादिना उपकारो यस्य तत् । कमलं करे यस्याः कमलवद्वा करो यस्याः सा । जिता निष्प्रभीकृता रूपनेपथ्यप्रागलभ्यादिभिरमराणां सभा यया सा ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332