Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
काव्यमाला ।
धुरा । तं जिनेन्द्र विसरमहं नमामि । किंविशिष्टम् | अरुणावारक्तौ करों हस्तो यस्य । अपगता आपदो यस्मात्तम् । विनाशितजन्मजरम् । अपकलितापमपगत कलहसंतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥
भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जिनपतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं
परमतमोहमानमतनूनमलङ्घनमघवतेहितम् ॥ ७१ ॥
भीषण महासंसारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिप्ता विस्फुरन्तः परमतमोहमाना येन । यद्वा मोहादज्ञानान्मानो मिथ्याभिनिवेशः । परमतानां मोहमानौ वा । तनु तुच्छमूनमपूर्ण च न । अलमत्यर्थे घनं निबिडं प्रमेयगाढम् । अघवते पापिने अहितं न श्रेयस्कारि । अपाराण्यपर्यन्तानि मर्त्यानाममराणां निर्वाणस्य शर्माणि तेषां कारणम् । परमं तमो हन्ति । यद्वा परमतमा उहा यस्मिन् । आनमत प्रणमत । नूनं निश्चितम् । न लङ्घनमभिभवो यस्य स चासौ मध्वा च तेन सामर्थ्यादच्युतनाथेन ईहितमभिलषितम् ||
यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुता
त्समतनुभाग विकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सांध्यघनमूर्धनि चक्रधरास्तु सा मुदे
Sसमतनुमा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ७२ ॥
अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च तान्यरीणि च तैर्महारिभिर्महाचक्रः यात्र जगति चक्रधरा देवी अप्रतिचक्रा देवी भाति शोभते । कथंभूता । विविधवर्णगरुडपृष्ठमधिरूढा । हुतमत्तीति हुताद्वह्निस्तत्तुल्यां तनुं भजते । अविकृता अविकारिणी धीर्यस्याः सा । महारिभिः किंभूतैः । असमानदवानलैरिव । धाम तेजस्तेन हारिभिर्मनोहरैः । यथा विद्युत्संध्याभवमेघमस्तके भाति तद्वत् । सा देवी मुदेऽस्तु भवतु । समा च तनुश्च समतनुः न समतनुरसमतनुः एवंविधा भा यस्याः । गवि पृथिव्यां स्वर्गे वा कृतो धीराणां समदानां वैरिणां वधो यया ॥ नुस्तनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिररुचिरोचितां वरम् । विडम्बयन्वररुचिमण्डलोज्ज्वलः प्रिये गुरोऽचिररुचिरोचिताम्बरम् ॥ ७३॥
नुदन् क्षिपन् । तनुं शरीरम् । प्रियंगुः श्यामो वृक्षविशेषस्तद्वद्रोचिर्यस्य । तनुं कथंभूताम् । रुचिरां उचितां च न एवंविधाम् । रुचिमण्डलं भामण्डलं तेनोज्ज्वलः कान्तः । अचिररुच्या रोचितं विद्युच्छोभितमम्बरमाकाशं विडम्बयन् । हे मल्ले (मल्लि
For Private and Personal Use Only

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332