Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
काव्यमाला।
लयनद्वहन् । किंभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । शमी प्रशमवान् । क्षणेन वेगेन । मुक्ताक्षमाला अस्यास्तीति । तप्तस्वर्णपिण्डपीतरुचिः । यो यक्षः क. स्यापि शमिनो मुनेरनिशं निरन्तरमीक्षणेन विलोकनेनाज्ञतां मूढतां संत्यज्य हितं प. रिणतिसुखमधारयत् । हितं किंभूतम् । मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली श्रेणिस्तस्या ईहितं चेष्टितम् ॥
भवतु मम मनः श्रीकुन्थुनाथाय तस्मा
यमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताभूज्जिनोऽप्यक्षपाशा
यमितशमितमोहयामितापायहृद्यः ॥ ६५ ॥ तस्यै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु । अमितः शमितो मोहस्यायामितापो दीर्घदवथुर्येन तस्मै । यः स्वामी हृद्यो हृदयहारी । संपूर्णभरतक्षेत्राधिपश्चक्रवर्ती जिनोऽप्यभूत् । किंभूतः। अमितानपायान्हरतीति । तस्मै किंभूताय। अक्षपाशा इन्द्रियरज्जवस्तैरयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहायाज्ञानघातिने ॥
सकलजिनपतिभ्यः पावनेभ्यो नमः स
न्नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो
नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ ६६ ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किंभूतेभ्यः। पावनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्वनिः रदा दन्ताश्च येषां तेभ्यः । सारोऽर्थप्रधानो वाद उक्तिर्येषां तैः स्तुताः । यद्वा सारश्चासौ वादश्च तेन स्तुता तेभ्यः । समधिगता प्राप्ता नुतिर्यैस्तेभ्यः । कस्माद्देवसमूहात् । किंविशिष्टात् । सारवात् प्रस्तुतस्तुतिकात् । गरीयांसो गरिष्ठा नया नीतयो येषु ते च ते नराश्च तेषां वरदेभ्यः । इत्थं. भूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥
स्मरत विगतमुद्र जैनचन्द्रं चकास
कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यदानमार्ग धुताधै
कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ॥ हे लोकाः, जिनचन्द्रसंबन्धिनं कृतान्त सिद्धान्तं यूयं स्मरत । हस्तिनमिव । किभूतम् । विगतमुद्रं गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् । हेतुदन्तं हेतव एव दन्तो विपक्षभेदकत्वाद्विषाणो यस्य
For Private and Personal Use Only

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332