Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
काव्यमाला।
पङ्ककर्दमः कालुष्यं, जरा विस्रसा, आजि: प्रधनं तैः । पुनः किंभूताम्, अध्यासीनाम् । कम् । माधिपं पुरुषप्रकाण्डम् । करैः किंविशिष्टैः । कजं पद्मं तद्वद्राजिभी राजनशीलैः॥
पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते___ ऽमायासंसारवासावन वर तरसाली नवालानबाहो । आनम्रा त्रायतां श्रीप्रभवभवभयाबिभ्रती भक्तिभाजा
मायासं सारवासावनवरतरसालीनवालानबाहो ॥ ४५ ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अवृजिन, हे जिनपते, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद्रक्ता कान्तिर्यस्य तस्य संबोधनम् । हे अमाय अदम्भ । हे असंसारवास, मुक्तौ प्राप्तत्वात् । हे अवन रक्षक, हे वर प्रधान । केन । तरसा बलेन वेगेन वा । यद्वा मायासंसारवासाभ्यां सकाशादवति रक्षतीति । नवालानववाहू भुजौ यस्य तस्य संबोधनम् । आली किंभूता।आनम्रा कृतप्रणामा । कस्मात्रायताम् । श्रीप्रभवः कामस्तद्भवं यद्भयं तस्मात् । हे श्रीभव लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा । आली किं कुर्वाणा । दधती। कम् । आयासं दुःखं श्रमं वा । सारवा प्रारब्धस्तुतित्वात्सशब्दा । असौ प्रत्यक्षा । अनवरतमजस्रं रसायां पृथिव्यां लीना वालाः केशा यस्याः सा । एतेन भक्त्याधिक्यं सू. चितम् । नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् । अहो इत्यामन्त्रणे ॥
पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्णशोभां
या तापत्रासमाना प्रतिमदमवतीहार ताराजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते
यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ॥ ४६ ॥ पूतः पवित्रो यत्पादपांशुश्वरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिस्तापत्रा तापभेत्री । असमाना गुणैरनन्यसदृशी। प्रतिमदं प्रतिगत. मदं निर्मदमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभां लम्भयन्ती । सा तती रजः कर्म ते तव प्रविकिरतु क्षपयतु । किंविशिष्टा । जिनराजानामियं जैनराजी तीर्थकरसंबन्घिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्विपत् , त्रासस्त्वाकस्मिकं भयं, मानो गर्यो यस्याः सा । कीर्तेः कान्त्या जयन्ती अभिभवन्ती । काः । हारताराः मुक्तावलीनक्षत्राणि ॥
नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा
पायायासाद्यमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे
पापायासाद्यमानामदनत वसुधासार हृद्याहितानि ॥ ४७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332