Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । १४३ नसं च नात नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसदृशाङ्गी । तारा मनोहरा । वा समुच्चये ॥ जिनवरततिजीवालीनामकारणवत्सलासमदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पङ्कया नूता तनोतु मतिं ममासमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ जिनेन्द्रराजिर्मम मातें ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो दो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वो वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नम्रा येऽमृतभुजो देवास्तेषां पतया नूता स्तुता । मतिं किंभूताम् । असमदैर्निरहंकारैर्महितां पूजिताम् । आरान् शीघ्रमिष्टा पूजिता अभिमता वा । देवपक्या किंभूतया सह मानवराजैर्नरेन्द्रैर्वर्तते या तया ॥ भवजलनिधिभ्राम्यज्जन्तुत्रजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामर्हन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ४३ ॥ हे संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसंपदे मानववृद्धिं समभिलषतां वाञ्छतां सह दाने रसेन वर्तते सदानरसं पदं तनु विधेहि | इति सटङ्कः (?) | नरसंपदं किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । किंविशिष्टानाम्। सन्नाः क्षीणा आशा मनोरथा येषाम् । नरसंपदं किंभूताम् । आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमर्त्याधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली मर्त्याधिपं कजराजिभिः ॥ ४४ ॥ महाकाली देवी प्रजयति प्रकर्षेण वैरिजयेन सर्वोत्कृष्टा वर्तते । करैर्हस्तैरुपलक्षिता । किंभूतैः । धृता वज्र - फल - जपमाला घण्टा यैस्ते तथा । देवी किंभूता । बोधिता प्रजा लोको यैस्ते बोधितप्रजास्ते च ते यतयश्च साधवः । ततः कृतो बोधितप्रजयतीनां महः पूजा उत्सवो वा यया सा तथा कालीं श्यामां दधती धारयन्ती । काम् । स्ववपुलताम् । किंभूताम् । अपरिक्षतामदूषिताम् । कैः । आर्तः पीडा, आधिर्मानसी व्यथा, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332