Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विशतिजिनस्तुतिः। १४१ ज्ज्वला । हे अध्यारूढे । क्व । द्विपेन्द्रे । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इव श्वेता भा यस्य तस्मिन् । स्वायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुरं मदवनं मदवारि यस्य तस्मिन् । अरातिर्वैरी सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता सा न मता यस्यास्तस्याः संबोधनम् ॥ तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् । यो योगिपतया प्रणतो नभःसत्सभासुरालीनतपादयावन् ॥ ३३ ॥ स सुविधिजिनो हे दयावन् जन, तव समृद्धि क्रियात् । भासुरं घोरमालीनमाश्रितं तपोऽनशनादिरूपं यस्य सः । यःस्वामी अवरक्षन् योगिवृन्देन प्रकर्षेण नत: । योगिपङ्या कथंभूतया । नभःसदो देवास्तेषां सभा पर्षत् असुरावली असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया ॥ या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना साराजिनानामलपद्ममालम् ॥ ३४ ॥ या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अ. लमत्यर्थे मुदं प्रीतिं दिश्याद्दद्यात् । कथंभूता । पादयुग्मं धारयन्ती । राजिनी राजनशीलाः नाना बहुविधाः अमलाः पद्ममाला यस्य तत्पादयुगम् ॥ जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ ३५ ॥ हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता । भङ्गैरर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमोऽज्ञानं निर्नाशयन्ती। केन । शस्यतमश्चारुतमो यस्तवस्तेन हेतुभूतेन शुभा प्रकृष्टा । तव कीदृशस्य । अरतीशस्याकामस्य । हे इन स्वामिन् ॥ दिश्यात्तवाशु ज्वलनायुधाल्पमध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ ३६ ॥ तव ज्वलनायुधा देवी के सुखं दिश्यात्करोतु । किंभूता । अल्पं तुच्छ मध्यं मध्यभागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अस्तेन्दुयंकृतमृगाङ्का । कया। आस्यस्य मुखस्य रुचा कान्त्या । उरु विस्तीर्ण पृष्ठमध्यासिताध्यारूढा । कस्य । अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य ॥ जयति शीतलतीर्थकृतः सदा चलनतामरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशचलनतामरसंसदलङ्घनम् ॥ ३७॥ शीतलतीर्थकरस्य चलनतामरसं पादपद्मं जगति । किंभूतम् । अम्बुरुहां कमलानां नवकं पथि मार्गे संस्पृशत् । नवकं किंभूतम् । सदलं सपत्रम् । घनं सारम् । चलनतामरसं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332