Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
काव्यमाला।
त्यागे मनोहरवहिसमान । दितौ छिन्नावायासमानौ येन । तुभ्यं किंभूताय । विद्वत्पङ्ख्या वन्दिताय । प्रकटिताः पृथवो वितता: स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणानि उहो वितर्कः अनेकान्तः स्याद्वादो येन तत्संबोधनम् । विद्वत्पतया किंभूतया । न वि. येते अलसमदौ तन्द्राहंकारौ यस्यास्तया । हे असमान निरुपमान ॥
जीयाद्रानिर्जनितजननज्यानिहानिर्जिनानां
सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्र
सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ॥ ३० ॥ जिनानां राजिर्जयतात् । किंभूता। विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । जयदमभ्युदयावहम् । इतरुग्गतरोगा। सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैवर्तते या । या भव्योद्धृत्या भव्यानामुद्धतिर्भवोत्ताररूपा तया हेतुभूतया भुवि पृथिव्यामवतारं कृतवती । या धर्मचक्रमवहदुवाह । सत्यागा सदाना । धर्मचक्रं कथंभूतम् । रअयद्रक्तीकुर्वत् । रवि सूर्यम् । दावतारम् दावोज्ज्वलम् । अमिता अप्रमाणा रुक्कान्तिर्यस्य॥
सिद्धान्तस्तादहितहतयेऽख्यापयद्यं जिनेन्द्रः __ सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलकैयै च मोदाद्विहायः
सद्राजीवः सकविधिषणापादनेकोपमामः ॥ ३१ ॥ स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । यं सिद्धान्तं सन्ति शोभनानि कमलानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिजनने दक्षो विचक्षणः । न विद्यते कोपमानौ यस्य यत्र वा । विहायःसदो देवास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोत्राञ्जलिभिर्मोदाद्धर्षायं च सिद्धान्तमपात् पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमानानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीवः' इति मुक्त्वा ॥
वज्राङ्कुश्यङ्कुशकुलिशभृत्त्वं विधत्स्व प्रयत्न
स्वायत्यागे तनुमदवने हेमतारातिमत्ते । अध्यारूढे शशधरकरश्वेतभासि द्विपेन्द्रे
स्वायत्यागेऽतनुमदवने हेऽमतारातिमत्ते ॥ ३२ ॥ हे वज्राङ्कुशि देवि, तनुमदवने जन्तुरक्षणे प्रयत्नं विधेहि । हे सृणिवज्रधारिणि । स्वायत्यागे शोभन आयोऽर्थागमो दानं च यस्याः। त्वं कथंभूता । हेमतारा कनको.
For Private and Personal Use Only

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332