Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 307
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ काव्यमाला | सा जिनश्रेणी मम मतिं दद्यात् । अस्तमुद्रा मुक्तप्रमाणा । गता प्राप्ता अमरसभा देवपर्षद्यां जिनपति अध्यगात्प्राप्तवती । आद्यां प्रथमाम् । किंभूता । असुरमध्यगा असुरमध्ये गच्छतीति । किं कुर्वती । रत्नांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उगतरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा ॥ श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराम मा नम लसन्तमसंगमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्तमाराममानमलसंतमसं गमानाम् ॥ २३ ॥ हे लोक, जिनेन्द्रागममानम । किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारामम् । लसन्तं शोभमानम् । केषाम् । असंगमानाम् । निःसङ्गानां मुनीनामित्यर्थः । अग्रिमं प्रकृष्टं धाम गृहम् । केषाम् । गमानां सदृशपाठानाम् । संसारसमुद्र सेतुम् । अस्ताः कामरोगाहंकारपापाज्ञानानि येन ॥ गान्धारि वज्रमुसले जयतः समीरपातालसत्कुवलयावलिनीलभे ते । कीर्ती: करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते ॥ २४ ॥ हे गान्धारि देवि, ते वज्रमुसले आयुधे जयतः । किंभूते । वातप्रेङ्खोलनेनालसन्ती या कुवलयमाला तद्वनीला भा कान्तिर्ययोः । ये वज्रमुसले कीर्तीर्यशांसि लभेते । किंभूते । तव हस्तस्नेहले । बलिनी बलवती । कीर्तीः किंभूताः । निरुद्धमावृतं पातालं सत्पृथ्वीवलयं च याभिः ॥ कृतनति कृतवान्यो जन्तुजातं निरस्त - स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व स्मर परमदमाया मानवाधाय शस्तम् ॥ २९ ॥ यः स्वामी जन्तुजातं कृतप्रणामं विहितवान् । किंभूतम् । निरस्तानि कंदर्पवैरिमदमाया मानपीडायशांसि येन तत् । तं सुपार्श्व देवं हे मानव, नर, त्वं स्मर । किं कृत्वा । निश्चलत्वमाधाय । कस्याः । चित्तवृत्तेर्मनोव्यापारस्य । सुचिरं प्रभूतकालम् । परमो मो यस्याः । शस्तं शोभनम् ॥ व्रजतु जिनततिः सा गोचरं चित्तवृत्तेः सदमरसहिताया वोsधिका मानवानाम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332