Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विशतिजिनस्तुतिः।
१३७
विधुतारा हे जिनाः, हितं तनुत कुरुत । विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्ज्वलाः । सदानाः सत्यागाः । जितमघातं घातवर्जितमघं पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्य यैस्ते । तथा विगतसंसाराः ॥
मतिमति जिनरानि नराहितेहिते रुचितरुचि तमोहे मोहे ।
मतमत नूनं नूनं स्मरामराधीरधीरसुमतः सुमतः ॥ १९ ॥ जिनराजि सर्वज्ञे, मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते। नराणामाहितं परितमीहितं वाञ्छितं येन तस्मिन् । रुचिता परेषां प्रमोदकारित्वादभीष्टा रुक्कान्तिर्यस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनु तुच्छमूनमपूर्ण च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य सः । असुमत: प्राणिनः । जातावेकत्वम् । सुमतो रक्षाक्रियायां सुत्रु अभिप्रेतः ॥
नगदामानगदा मामहो महो राजिराजितरसा तरसा ।
घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २० ॥ अहो इति संबोधने विस्मये वा । काली देवी मामवताद्रक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा । कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा । तरसा बलेन शीघ्रं वा । धनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्मये। उना अपूर्णाः । दूना विपक्षैः । सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥
पादद्वयी दलितपद्ममृदुः प्रमोद
मुन्मुद्रतामरसदामलतान्तपात्री। पाझप्रभी प्रविदधातु सतां वितीर्ण
मुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१ ॥ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोदं प्रविदधातु । किंभूता । दलितं विकसितं यदब्जं तद्वत्कोमला । उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसुमानि तेषां पात्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वालतास्तासामन्तपात्री समीपभाजनम् । सतां वितीर्णमुद्दत्तप्रीतिः । मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तान्ग्लानान्पातीनि मलतान्तपात्री ॥
सा मे मतिं वितनुताजिनपतिरस्त
मुद्रा गतामरसभासुरमध्यगाद्याम् । रत्नांशुभिर्विदधती गगनान्तराल
मुद्रागतामरसमासुरमध्यगाद्याम् ॥ २२ ॥
१८
For Private and Personal Use Only

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332