Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 305
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ काव्यमाला। नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यद्वा परमुदरं यस्य । हे सुरव, जगदाह्लादित्वात्........। परमः प्रधानोऽदरो निर्भयश्च ॥ जितवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ १४ ॥ हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूयं प्रयतध्वं प्रयत्नं कुरुध्वम् । किंभूताः । इतामया गतरोगाः । पुनः किंभूताः । महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते। किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितत्वम् । अमतावनभिप्रेतो मोहसङ्ग्रामौ येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैर्मनोहराः ॥ असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय तम् ।। १५ ॥ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भवं संसारमायतं प्रबलं लघीयस्त्वं प्रापय । आजिः सङ्ग्रामः नवरागो द्रव्यादौ नूतनोऽभिलाषः । यद्वा उद्धताजी नवरागी यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसङ्ग्रामन्त. नरागकाममाय ॥ विशिखशङ्खजुषा धनुषास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ १६ ॥ धनुषा मण्डितहस्तां रोहिणीं देवी नम । किंमतेन । शरशङ्खसहितेन । अस्ता ध्वस्ता सत्सुराणां प्रकृष्टदेवानां भीर्येन । तताः प्रसूता नुनाः प्रेरिता महान्तोऽरयो येन । परिगतां परिवारिताम् । विशदां शुक्लवर्णाम् । इहात्र जगति रोहिणी रोहिण्यभिधानाम् । सुरभिर्गोस्तत्र याता प्राप्ता तनुर्यस्यास्तां देवों नम प्रणिपत । धनुषा किंभूतेन । हा. रिणा मनोहरेण ॥ मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । दम दमपालय पालय दरादरातिक्षतिक्षपातः पातः ।। १७ ॥ हे मदकामाभ्यां त्यक्त, हे नरेभ्यो हित, हे सुमतिजिन, दमदं प्रशमदं नरं दरा. दिहलोकादिभेदभिन्नसाध्वसापालय रक्ष । हे सुमतेन सुसिद्धान्तस्वामिन् । यद्वा सुमतेन करणभूतेन । हे अपालय अपगतनिलय । हे कनकतार तपनीयोज्ज्व ल । हे इतारे गतशात्रव । हे पातस्त्रायक । अरातिक्षतिः शत्रभ्य उपमर्दः सैव रौद्रात्मकत्वाक्षपा रात्रिस्तस्याः ॥ विधुतारा विधुताराः सदा सदाना जिना जिताघाताघाः । . तनुतापातनुतापा हितमाहितमानवनवविभवा विभवाः ॥ १८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332