Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विशतिजिनस्तुतिः। पदमुपरि दधाना वारिजानां व्यहार्षी त्सदमरसहिता या बोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिर्वो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु । किंभूतायाः। सह दमरसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्षीद्विहारं कृतवती । किंभता । नवानां नवसंख्यानां नूतनानां वारिजानां स्वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा स्वयमवाप्तबोधित्वात्परेषां बोधिधर्मप्राप्तिस्तत्र कामो यस्याः सा ॥ दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयन्सिद्धवासे ऽरुनि नमत मुदारं काममायामहारि ॥ २७ ॥ हे जना जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढं प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्घ्यशोभि। अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणखिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोर्महारि महावैरिभूतम् ॥ दधति रविसपत्नं रत्नमाभास्तभाव न्नवधनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा न्नव घनतरवारिं वारणारावरीणाम् ॥ २८ ॥ हे महामानसि देवि, इष्टानभिमतानरादीनव रक्ष। हे गतवति प्रापुषि । कस्मिन्वारणारौ सिंहे । हे दधति धारयन्ति । किम् । रत्नं मणिम् । किंभूतम् । रविसपत्नं रविप्रतिपक्षं प्रभाधिक्यात् । आभया कान्त्या अस्तो भास्वान्सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् । वा समुच्चये। सिंहे किं कुर्वति । अरीणां वैरिणामालीं श्रेणिं विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खग किंभूतम् । घनतरवारि सान्द्रतरपानीयम् । रत्नविशेषणं वा। तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां हाने कान्तानलसम दयावन्दितायासमान । विद्वत्पङ्क्तया प्रकटितपृथुस्पष्टदृष्टान्तहेतू हानेकान्तानलसमदया वन्दितायासमान ॥२९॥ हे चन्द्रप्रभ जिन, हे दयावन् , तुभ्यं नमोऽस्तु । तमःसंबन्धिविस्फूर्जिताना हाने For Private and Personal Use Only

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332