Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशतिजिनस्तुतिः ।
१४७ न्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतैर्नुता स्तुता । परमं चापं धनुर्लातीति । आरोहणशीला । काम् । सुष्ठ धावतीति सुधावा सुवेगा या सुरभी गौस्ताम् । अनामयनी नीरोगा सभा यस्याः सा । क्षमा लातीति क्षमाले मयि ॥
सकलधौतसहासनमेरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनमेरवः ॥ १३ ॥ सकला: समस्ता धौताः क्षालिताः सहासाः सविकासा न मेरवो वृक्षविशेषा यैस्ते । मतमभिप्रेतम् । हे अनन्तजिन। चतुर्दशस्य तीर्थकृतो द्वे नाम्नी अनन्तोऽनन्तजिच्च । सहासनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते ततः स्नपितः स्नानं कारितः उल्लसञ्शोभमानः सकलधौतः सहेमा सहासनो मेरुयैस्ते । यद्वा सकलधौतं ससुवर्ण सह समर्थ दृढमासनं यस्मिन् । ततः स्नपित उल्लसन् सकलधौतसहासनमेरुयैस्ते । हे अनन्तजित् , तव स्नानजलप्रवाहा मतं हितं दिशन्त्विति संबन्धः ॥
मम रतामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक । वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ १४ ॥ हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञतां जाड्यं निहन्तु । रताः सक्तचित्ता येऽमरास्तैः सेवित । हे क्षणप्रद उत्सवदायक । वरं ददातीति वरद । पादयुगं किंमतम् । गतं प्राप्तम् । क्व । अमरतामरसे सुरकृतनवकमलेषु । जातित्वादेकवचनम् । वितते वि. स्तीर्णे लोचने यस्य तस्य संबोधनम् ॥
परमतापदमानसजन्मनःप्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ ५५ ॥
हे भव्यलोकाः, जिनेन्द्रमतं भवतो युष्मान् भवतः संसारात् अवताद्रक्षताम् । किविशिष्टम् । परमतानां बौद्धादिशासनानामापदां हेतुत्वादापद्वयसनम् । अमानान्यसं. ख्यानि सजन्ति संबध्यमानानि मनःप्रियाणि चित्तप्रीतिकराणि पदानि स्वाद्यन्तानि यस्मिस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासंतापकारी मानसजन्मा कामो येन तस्य ॥
रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता । धृतधनुःफलकासिशरा करै रसितमुच्चतुरं गमनाय कम् ॥ १६ ॥
अच्युता अलुप्ता देवी के सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरङ्गमनायकं तुङ्गाश्वप्रकाण्डम् । किंविशिष्टम् । रसितं शब्दायमानम् । उत्प्राबल्येन चतुरं द. क्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गम. नाय गत्यर्थम् । देवी कथंभूता । काञ्चनवकान्तिर्यस्याः सा । करैः शयैवता चापावरणखड्गबाणा यया सा ॥
For Private and Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332