Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ काव्यमाला | किंभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लङ्घनमधःकरणं कुतश्चिद्यस्य तदलङ्घनम् ॥ स्मर जिनान्परिनुन्नजरार जोजननतानवतोदयमानतः । परम निर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ ३८ ॥ हे जन, भव्यलोक, अतोऽस्मात्कारणाजिनान् स्मर । किंविशिष्टान् । परिनुन्ना परिक्षिप्ता जरा वयोहानिरूपा, रजः कर्म, जननं जन्म, तनोर्दुर्बलस्य भावस्तानवं कायें, तोदो बाधा, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुक्तिसुखकर्तृन् । नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । अदयं शरीरावयवनिरपेक्षं यथा स्यात्तथा आनतः प्रणतः सन् त्वम् ॥ जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ ३९ ॥ जिनेन मनीषिणां गणभृतां प्रथितं प्रोक्तं मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथपूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मिथ्यारूपानागमान् दृणातीत्येवंशीलः । जिन विशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदश्च जात्याद्युत्थोऽभिनिवेशः । यद्वा रतं मैथुनं रागो द्रव्यादावभिलाषः, मदः पूर्वोक्त एव तेषामरिणा वैरिणा ॥ घनरुचिर्जयताद्भुवि मानवी गुरुतरा विहतामरसंगता । कृतकरात्रवरे फलपत्रभागुरुतराविहतामरसं गता ॥ ४० ॥ मानवी देवी जयतात् । किंभूता । घना सान्द्रा रुचिः कान्तिर्यस्याः सा । गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरास्तैः संगता सहिता । अस्त्रवरे प्रधानायुधे कृतपाणिः । फलपत्रे भजते फलपत्रभाक् । तरोविशेषणमेतत् । स चासौ उरुतरुश्च विशालद्रुमश्च तत्र । तामरसं पद्मं गता प्राप्ता ॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततमां द्राकू श्रेयांसं न चाहृत यन्मनः कमलसदृशाङ्गी तारा वावला दयितापि तम् ॥ ४१ ॥ अलसदृशामलसेक्षणानां स्त्रीणां नृणां वा गीतारावा गीतध्वनयो यस्माज्जनात्क - मन्यं जनं मोहवशवर्तिनं न व्यधुः । अपि तु सर्वमप्यकार्षुः । किंविशिष्टम् । बलात्प्रसभम् । अयि संबोधने | तापितं पीडितम् । केन । कुसुमधनुषा कामेन । हे जनाः, तं श्रेयांसं प्रणमततमाम् । द्राक् शीघ्रम् । अबला स्त्री दयितापि कान्तापि यन्मनो यन्मा १. 'मानसी' इति पुस्तकान्तरे पाठः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332