Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ काव्यमाला | यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाढ्य जिंकल्कबिन्दूनदधत्पपौ । किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलौल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । समुदिता सहर्षा । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च ) ॥ तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ९ ॥ यः स्वामी निजजन्मोत्सवेऽतिष्ठौ । किं कर्म । विराजद्भिर्वर्धनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखराग्रम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखराग्रम् | अस्तोऽस्तगिरिस्तद्वत्कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥ स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणव स्तुवन्ति ॥ ६ ॥ हे लोकाः । तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अर्त्या पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गहृदः सुरामः सुष्ट रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा । 'वत्यये (?) लुग्वा' इति रेफस्य लुक् ॥ प्रवितर वसतिं त्रिलोकबन्धो गम नययोगततान्तिमे पदे हे । जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७ ॥ अन्तिमे मोक्षलक्षणे पदे हे जिनमत । मे मम वासं देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व | 'ययुरश्वोऽश्वमेधीयः' इति वचनात् । 'तमोऽवग्लानी' इति धातोस्तान्तिग्लानिः । आपदित्यर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किंभूते पदे अपदेहे देहमुक्ते ॥ सितशकुनिगताशु मानसीद्धात्तततिमिरंमदभा सुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ ८ ॥ हंसारूढा मानसी देवी पत्रिं वज्रं दधती शं सुखं प्रवितरतु । पविं किंभूतम् । इद्धा दीप्ता आत्ता गृहीता ततिविस्तारो येन तत्तथा । इरंमदो जलदामित्तद्वत्कान्तिर्यस्याः सा सुष्ठु शोभिता आशा दिशो येन । क्षतं विनष्टमुद्गच्छत्ततं विस्तीर्ण ध्वान्तं यस्मातत्तथा । देवी दर्पोद्धुरैरपराभूता ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332