Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ काव्यमाला। महाकविशोभनमुनिप्रणीता चतुर्विशतिर्जिनस्तुतिः । टिप्पणसमेता। धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावा षण्णवति(?)संख्यानां शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली रम्भासामज नाभिनन्दन महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झिता रम्भासान जनाभिनन्दन महानष्टापदाभासुरैः ॥ १ ॥ हे नाभिनन्दन नाभिनरेन्द्रपुत्र, त्वं महानुत्सवान्विदुषां संपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधनं हे भव्याम्भोजविबोधनैकतरणे । सूर्यो यथा स्वगोसंभोरैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैभव्यजन्तूनां बोधं विधत्ते। ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां तर्हि तस्य तद्बोधनेऽसामर्थ्यमायातमिति नैवम् । नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिनिबिडकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति तर्हि तस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्यं येषां ता न रोचयन्ते (सा न रोचते) नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं वि. स्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुत्वात्सामजो हस्ती। तस्य संबोधनम् । हे नाभिनन्दन । तथा महत्यो नष्टा आपदा यस्य स महानष्टापत् । संबोधनं वा । तथा आभासुरैः कान्तिसंभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तर चित्तप्रतिबन्धेन हे व. न्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षण त्यक्ता आरम्भाः सावधव्यापारा १. एतस्या जिनस्तुतेः पुस्तकत्रयमवचूरिसमेतं केवलदासात्मजेन भगवानदासश्रेष्टिनास्मदर्थ प्रहितम्. तत्र प्रथमं शुद्धं सुन्दरं पञ्चपत्रात्मकं १५०५ मिते विक्रमाब्दे लिखितम्. द्वितीयमपि तादृशमेवैकादशपत्रात्मकं १६१४ मिते विक्रमाब्दे लिखितम्. तृतीयं नातिशुद्ध त्रयोदशपत्रात्मकं १६१५ मिते विक्रमाब्दे लिखितमस्ति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332