________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
काव्यमाला |
यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाढ्य जिंकल्कबिन्दूनदधत्पपौ । किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलौल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । समुदिता सहर्षा । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च ) ॥
तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ९ ॥
यः स्वामी निजजन्मोत्सवेऽतिष्ठौ । किं कर्म । विराजद्भिर्वर्धनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखराग्रम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखराग्रम् | अस्तोऽस्तगिरिस्तद्वत्कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥
स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणव स्तुवन्ति ॥ ६ ॥
हे लोकाः । तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अर्त्या पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गहृदः सुरामः सुष्ट रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा । 'वत्यये (?) लुग्वा' इति रेफस्य लुक् ॥
प्रवितर वसतिं त्रिलोकबन्धो गम नययोगततान्तिमे पदे हे । जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७ ॥
अन्तिमे मोक्षलक्षणे पदे हे जिनमत । मे मम वासं देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व | 'ययुरश्वोऽश्वमेधीयः' इति वचनात् । 'तमोऽवग्लानी' इति धातोस्तान्तिग्लानिः । आपदित्यर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किंभूते पदे अपदेहे देहमुक्ते ॥
सितशकुनिगताशु मानसीद्धात्तततिमिरंमदभा सुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ ८ ॥
हंसारूढा मानसी देवी पत्रिं वज्रं दधती शं सुखं प्रवितरतु । पविं किंभूतम् । इद्धा दीप्ता आत्ता गृहीता ततिविस्तारो येन तत्तथा । इरंमदो जलदामित्तद्वत्कान्तिर्यस्याः सा सुष्ठु शोभिता आशा दिशो येन । क्षतं विनष्टमुद्गच्छत्ततं विस्तीर्ण ध्वान्तं यस्मातत्तथा । देवी दर्पोद्धुरैरपराभूता ॥
For Private and Personal Use Only