________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशतिजिनस्तुतिः ।
१३३
येन तस्य संबोधनम् । तथा सह आमै रोगैर्वर्तते सामः । न तथा असामोऽरोगस्तस्य संबोधनम् । जनानभिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्ण तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्त जात्यतपनीयसमवर्णत्वाद्भगवतः ॥
ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा
दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ २ ॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो गेगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापनं दाराः कलत्राणि कर्तरूपाणि नाचिक्षुपुर्न क्षोभयामासुः । 'दारा: प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमैर्विलासै रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिता: शोभिताः । सुमनसः पु. पाणि कर्तणि यत्पादौ यच्चरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दा. यमाना भ्रमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥
शान्ति वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै
रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली
रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥ तजगतां पूज्यजिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिनयैरक्षोभं परवादिभिरजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छितमङ्गानामाचारादीनां जालं समहो यत्र तत् । तथा माद्यत्कवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भञ्जनैर्भङ्गकारिभिर्हेतुभिाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मिथोऽनुगमनादित्यत्र 'गुणादस्त्रियां न च' इति पञ्चमी ॥
शीतांशुत्विषि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा
नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ
नालीके सरलालसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥
For Private and Personal Use Only