________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशतिजिनस्तुतिः ।
निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् |
वितर त्रातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९ निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोsरममाणोऽक्रीडन्मारः कामो यत्र ॥
आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः ।
१३५
स्तुत रहित जनकदम्बक विभयापरमार मारमानमदमरैः ॥ १० ॥ हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित । हे विगतभय । हे न परान्मारयतीत्यपरमार । सर्वजन्तुरक्षक । हे रहित त्यक्त । कैः । काममानमदमरणैः ॥
जिनराज्या रचितं स्वादसमाननयानया नयायतमानम् ।
शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥
जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्तया नः इत्यत्र 'रोर्यः' इति रस्य यः । 'स्वरे वा' इति विकल्पत्वात्तस्यात्र न लुक् । आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्नं कुर्वाणम् ॥
शृङ्खलभृत्कनकनिभा यातामसमानमानमानवमहिताम् ।
For Private and Personal Use Only
श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ॥
या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खलां वज्रशृङ्खलाभिधानामानम । किंभूताम् | असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानौ प्राणाहंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैर्महिता पूजिता ताम् । कजयातां पङ्कजगताम् । असमानं निरहंकारं यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् ॥
त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन्सुरवधूनय नः परमोदरः ॥ १३ ॥
हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधुषु नयने यस्य स तथा । यद्वा