Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
श्रीदोऽपि सूत्रितयमालयवासकेलि
स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ १९॥ यत्तपत्यपि कलौ जिन प्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ २० ॥ मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा
स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो । कुरूद्दयोतं क्लीवद्दिनपतिसुधागौ तमसि मे
प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥२१॥ इति श्रीजिनप्रभाचार्यविरचितं गोतमस्तोत्रम् ।
श्रीजिनप्रभाचार्यविरचितः
श्रीवीरस्तवः। कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैरधीरधीस्तोष्येऽहं चरमं जिनेश्वरम् ॥ १ ॥ त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः । तस्येन्द्रवज्रायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ २ ॥ किमेकमाश्चर्यकरं न ते यत्पुष्पंधयोऽप्येष विशेषविज्ञः । त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ ३ ॥ यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम् । प्रेत्य तस्य दिवि देवमृगाक्ष्यः स्वागतानि निगदन्ति सरागम् ॥४॥ वानिवारणरथोद्धता भटैरुद्भटा सुभगभोगभङ्गिभृत् । राज्यऋद्धिरुपनंनमीति तं नंनमीति तव यः पदौ मुदा ॥ ५ ॥ नाकिनिकायकरप्रहतानां संप्रसरन्गगने मुरजानाम् । जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥ ६ ॥ ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो । तैः श्रेयश्रीर्मधुरमधुरसास्वादासादात्समजनि कृतिभिः ॥ ७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332