Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 285
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ काव्यमाला | युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्धजमस्य यः । स्तुतजनाः सुविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतम् ॥ ९ ॥ दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती । मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ १० ॥ जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजदृग्दशमोत्तरः । कनकदीप्तिरमर्पित हीरकस्तबरदो वरदो वरदोर्युगः ॥ ११ ॥ शुभमयी वासुपूज्यसुतप्रभो भुवननेत्रमहो महिषाङ्किता । तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता ॥ १२ ॥ सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते । अपि शमं नयते तव गीर्जितामृतरसा तरसा तरसा तृषम् ॥ १३ ॥ निजयशोभरनिद्दुतजागवीजलवलक्षितकीर्तिरनन्तजित् । दिशतु वः कुमतासुरनिग्रहे भृशमनः शमनः शमनश्वरम् ॥ १४ ॥ भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती । किमु करोति न पित्तरजः शमं वरसिता रसिता रसिताजुषा ॥ १५ ॥ जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः । रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ १६ ॥ अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् । त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्घनरसा नरसा न रसा न किम् ॥ १७ ॥ जगदधीश सुदर्शनभूमिपान्वयपयः सरिदीशशिखामणे । प्रणिदधेऽन्तिषदो विषदवता वनरता न रता नर तावकान् ॥ १८ ॥ हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम् । निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ १९ ॥ त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥ २० ॥ विरतिवर्मतटावतिकुण्ठितस्मरशरः शरणीक्रियतां त्वया । गुणगणस्य नमिर्बुधबर्हणव्रजनभाजनभाजनभावभाक् ॥ २१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332