Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
काव्यमाला।
हस्तिपालकनृपालपालिता पूर्न पूरयतु मन्मनःशुचा । यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः ॥३॥ ऊर्जदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णजाः प्रजाः। त्वन्महोदयमहीतयाधुनाप्युत्सवं विदधतेऽनुवत्सरम् ॥ ४ ॥ यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ । तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः ॥५॥ पुण्यपापफलपाकवर्णनामध्यमध्ययनपति युक्छतम् । व्याकृथाः स्फुटमपृष्ट षट्कृतिव्याकृतीश्च परिषत्पुरस्तदा ॥ ६ ॥ जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा । नूनमैष्यत न देव केवलज्ञानसंपदनुरागभागपि ॥ ७ ॥ यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयान्यतः । रोगिणः कटुकायुपानवज्ज्यायसेऽस्य चक्लृपे गुणाय तत् ॥ ८॥ त्वद्दिदृश्ववतरत्सुरावलीयानदेहमणिभूषणांशुभिः । सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्भुवम् ॥९॥ निर्वृते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम् । रोदयन्त इव रोदसी प्रतिश्रुद्भरेण रुरुदुः पुरंदराः ॥ १० ॥ वहिवायुजलदेश्वरैः सुरैस्तैलपर्णिककृताङ्गसंस्कृतेः । भूतिमात्रमपि भूतिधाम ते येऽस्पृशन्बत न तान्रजोऽस्पृशत् ॥ ११॥ भक्तितो महितुमीश वासवास्तावकीनहनुसंग्रहं व्यधुः । नूनमक्षविनयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः ॥ १२ ॥ कुग्रहा न तव जातु शासनं वीर बाधितुमलंभविष्णवः । एककः स खलु भस्मकग्रहो बाधते भवदुपेक्षितस्तदा ॥ १३ ॥ जग्मुषि त्वयि शिवं नराधिपास्तं क्षणं गृहिणीनबोधयन् (१) । ये बभुः कुनयकाननप्लुषस्त्वत्प्रतापशिखिनः कणा इव ॥ १४ ॥ यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैर्जिनैरिव । दुःषमासमयभावलिङ्गिनां व्याजि तेन गुरुनिर्व्यपेक्षता ॥ १५ ॥ १. जायुरौषधम्. २. तैलपणिकं चन्दनविशेषः.
For Private and Personal Use Only

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332