Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ काव्यमाला। अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभविविप्रलम्भाः । परोपदेशाः परमाप्तक्लुप्तपथोपदेशे किमु संरभन्ते ॥ १५ ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ १६ ॥ देहाद्ययोगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपक्लप्तेष्वधिदैवतेषु ॥ १७ ॥ प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश समाधिमास्थाय युगाश्रितोऽसि (!) ॥१८॥ जगन्ति भिदन्तु सृजन्तु वा पुनर्यथातथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवान्भवक्षयक्षमोपदेशे तु परं तपस्विनः ॥ १९ ॥ वपुश्च पर्यशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम् ॥ २० ॥ यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ २१ ॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥ २२ ॥ अनाद्यविद्योपनिषन्निषण्णैर्विशृङ्खलैश्चापलमाचरद्भिः । अगूढलक्ष्योऽपि पराक्रिये यत्त्वत्किकरः किं करवाणि देव ॥ २३ ॥ विमुक्तवैरव्यसनानुबन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ तां देशनाभूमिमुपाश्रयेऽहम् ॥ २४ ॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ २५ ॥ खकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग न रागमात्रेण मनोऽनुरक्तम् ॥ २६ ॥ सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ॥२७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332