Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
जीवति जीवति नाथे, मृते मृता या मुदायुता मुदिते। सहजस्नेहरसाला, कुलबाला फेन तुल्या स्यात् ॥४०॥ ____ इति कथयन्ती प्रेमलाऽपि कस्यचिकिमपि कथनं श्रमणं विनैव कुकुटराजस्य पश्चादेव वत्र कुंडे झंपापावं चकार । वयस्थास्ता तथा प्रेक्ष्य सस्वर धावमाना: सभागता विचारशून्या अजनिषत । सर्वोऽनया घटनया हाहाकारोऽजायत । कुंडपतनानन्तरं ४ तया कुक्कुटराजग्रहणाय चेष्टा कृता, तस्यामेव पेशयां वीरमत्याऽभिमन्त्रितं कुक्कुटराजचरणबद्ध सूत्र प्रेमलायाः करघर्षणेन शुब्धते स्म । भिद्यमान एवं तस्मिन् सूत्रे कर्ममुस्त इव राजा चन्द्रश्चरणायुधान्मनुष्यत्वमाप, अयमपि विमलाचलतीर्थस्पर्शधर्मप्रभाव एन । यतः-व्यसनशतगतानां क्लेशरोगातुराणां, मरणभयहतानां दु:खशोकार्दितानाम् ।
जगति बहुविधानां व्याकुलानां जनानां, शरणमशरणानां नित्यमेको हि धर्मः ॥ ४१॥ | तद् वीक्ष्य सर्वेषामार्थमजनि, तदैव शासनदेव्योभारपि कुंडाविष्कास्य ताभ्यामाशीर्वादो दत्तः । बहिनिर्गते प्रेमलया राजा चन्द्रः | समुपलक्षितोऽतोनिमेषदृष्ट्यावलोकमानायास्तस्याः प्रहर्षोत्कर्षात्किमप्यालपनसाहस न बभूव ।
यथोक्तम्-नान्त:प्रवेशमरुणद्विमुखी न चासी-दाथष्ट दोषपषाणि न चाक्षराणि ।
सा केवल सरलपक्ष्मभिरक्षिपातः, कान्तं विलोकितवती जननिर्विशेषम् ॥४२॥ तदीपाऽखिलाप्याशा युगपदेव पूर्णाऽभूत्, सत्वरमेवाऽयं समाचारो व्योम्नि विद्युदिवाऽखिले नगरे प्रससार चानेन चतुर्दिक्षु है. प्रमोदाधिकलोला उत्तस्थिवांसः। तीर्यवासिभिर्देवैर्मुक्ता पुष्पवृष्टिस्तदुपरि पात, सर्वत्राऽस्य तीर्थस्स माहात्म्यं विस्तृतम् । सूर्यकुंडोदकं
तताप्रभृति पापपङ्कप्रक्षालकत्येन प्रसिद्धमभूत, अस्यैव कुंडस्य प्रभावाद्राजचन्द्रस्य मनुष्यत्वप्राप्ति तेति सवैरबोधि । प्रेमलया पदा
कलम
२६

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236