________________
जीवति जीवति नाथे, मृते मृता या मुदायुता मुदिते। सहजस्नेहरसाला, कुलबाला फेन तुल्या स्यात् ॥४०॥ ____ इति कथयन्ती प्रेमलाऽपि कस्यचिकिमपि कथनं श्रमणं विनैव कुकुटराजस्य पश्चादेव वत्र कुंडे झंपापावं चकार । वयस्थास्ता तथा प्रेक्ष्य सस्वर धावमाना: सभागता विचारशून्या अजनिषत । सर्वोऽनया घटनया हाहाकारोऽजायत । कुंडपतनानन्तरं ४ तया कुक्कुटराजग्रहणाय चेष्टा कृता, तस्यामेव पेशयां वीरमत्याऽभिमन्त्रितं कुक्कुटराजचरणबद्ध सूत्र प्रेमलायाः करघर्षणेन शुब्धते स्म । भिद्यमान एवं तस्मिन् सूत्रे कर्ममुस्त इव राजा चन्द्रश्चरणायुधान्मनुष्यत्वमाप, अयमपि विमलाचलतीर्थस्पर्शधर्मप्रभाव एन । यतः-व्यसनशतगतानां क्लेशरोगातुराणां, मरणभयहतानां दु:खशोकार्दितानाम् ।
जगति बहुविधानां व्याकुलानां जनानां, शरणमशरणानां नित्यमेको हि धर्मः ॥ ४१॥ | तद् वीक्ष्य सर्वेषामार्थमजनि, तदैव शासनदेव्योभारपि कुंडाविष्कास्य ताभ्यामाशीर्वादो दत्तः । बहिनिर्गते प्रेमलया राजा चन्द्रः | समुपलक्षितोऽतोनिमेषदृष्ट्यावलोकमानायास्तस्याः प्रहर्षोत्कर्षात्किमप्यालपनसाहस न बभूव ।
यथोक्तम्-नान्त:प्रवेशमरुणद्विमुखी न चासी-दाथष्ट दोषपषाणि न चाक्षराणि ।
सा केवल सरलपक्ष्मभिरक्षिपातः, कान्तं विलोकितवती जननिर्विशेषम् ॥४२॥ तदीपाऽखिलाप्याशा युगपदेव पूर्णाऽभूत्, सत्वरमेवाऽयं समाचारो व्योम्नि विद्युदिवाऽखिले नगरे प्रससार चानेन चतुर्दिक्षु है. प्रमोदाधिकलोला उत्तस्थिवांसः। तीर्यवासिभिर्देवैर्मुक्ता पुष्पवृष्टिस्तदुपरि पात, सर्वत्राऽस्य तीर्थस्स माहात्म्यं विस्तृतम् । सूर्यकुंडोदकं
तताप्रभृति पापपङ्कप्रक्षालकत्येन प्रसिद्धमभूत, अस्यैव कुंडस्य प्रभावाद्राजचन्द्रस्य मनुष्यत्वप्राप्ति तेति सवैरबोधि । प्रेमलया पदा
कलम
२६