________________
-MI राजा चन्द्रः परिचितस्तदा सा नैसर्गिकहिया संकुचिता जाता । पुनरपि तयाऽजलि संयोज्य विनयेन तस्मै विज्ञपितम्-स्वामिन् !
साम्प्रतमस्य कुण्डस्योदकेन स्नात्वा श्रीऋषमजिनेश्वरो भवताय॑ताम् ।
यता-एअं जम्मस्स फलं, सारं बिहवस्स इत्ति चेव । जं अचिवह गंतु, सत्तुंजे रिसहतित्थयरो॥ ४३ ॥ ___ अस्य गिरिराजस्य महिम्ना मामकीनं सर्व कार्य समपद्यत, अतोऽस्याऽपि वरिवस्या विधीयताम् । सहैव सम्यक्त्ववृक्षमपि मक्तिरसेन सिच्यताम, येन सपल्लवितकुसुमितः स विरक्तिफलमुत्पादयेत् । राजा चन्द्रण प्रेमलोक्तमणीकृतं ततो जायापती तत्राऽभिषि
व्योत्तमैरष्टव्यैः सोत्साहं परमात्मनः श्रीऋषभदेवस्वामिनो द्रव्यार्चा चक्रतुः । यता| जिनपूजनं जनाना, जनयत्येकमापे संपदो विपुलाः । जलमिव जलदविमुक्तं, काले शस्य श्रियो त्यखिलाः||४४॥ तदनन्तरं भावपूजामपि विदधत्तुः, यद्वर्णनमग्रिमपरिच्छेदे सविस्तरं करिष्यते।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य द्वाविंशपरिच्छेदे महानन्दोत्सववर्णनम्अथ राजा चन्द्रो भगवन्तमृषभदेवं स्तुवन्नृचिवान-हे त्रिभुवनसमुद्धारक 1 शान्तिसुधारसेन्दो ! मव्यजनाशाश्रय ! दिव्य- 16 सुरतरो! भवोदषितारणसत्तरण्ड ! भवचरणारविन्दे चञ्चरीकायमाणाः सकलसुरेन्द्रा निलीनास्तिष्ठन्ति । अनन्तगुणवतो भवत 2 आज्ञाखिलेऽपि जगति प्रवर्तते भवमामग्रहाशनिः प्राणिनामघपुञ्जमहीधरं विदारयति । किमधिकम्
यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि । स्वमत्तिरापि यत्र दुर्लभा, लीलयैव विधाति तद् भवान् ॥ ४५ ॥
ॐॐॐॐॐ
MPAL