________________
क्षयोपशमस्तथा तस्य रूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्वहु जानाति कश्चिद्वहुतरमिति, नचार्य ज्ञान विशेषःखल्वात्मनस्तत्स्वभावतामन्तरेणोपपद्यते, ततोऽवश्यमसौ ज्ञस्वभावः प्रतिपत्तव्यः, तस्य चाशेषावरणविलये समस्तज्ञेयपरिच्छेदकता ज्ञस्वभावत्वात् , तथा चास्मिन्नर्थे लौकिको दृष्टान्तो, यथा पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतः स्वगतमललेपापगमे प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलकलङ्काङ्कितः प्रागशेष वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेषसंयोगोपायतोऽपेतसमस्तावरणः समस्तं वस्तु प्रकाशयति, प्रतिबन्धकाभावात् , न चाप्रतिवद्धस्वभावस्यापि तस्य सर्वत्र प्रकाशनव्यापाराभावो, ज्ञस्वभावत्वात्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, अथ पद्मरागोऽपि प्रकाशकस्वभावः, न चासौ प्रतिबन्धाभावे सर्व प्रकाशयति,त ततस्तेनैव व्यभिचार इति, तदसम्यक्, तस्य सन्निकृष्टार्थप्रकाशनस्वभावत्वाद् विप्रकृष्टविषये देशविप्रकर्षेणैव प्रतिबन्धमावात्, न चात्मनोऽपि देशविप्रकर्षः परिच्छेदप्रतिवन्धहेतुः,तस्यागमगम्येषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्य्यदर्शनात् , तथा च परमाणुमूलकीलकोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि
दृश्यते, एवं साक्षात्कारि क्षायिकमिति प्रतिपत्तव्यमिति क्षायिकज्ञानवतां प्रत्यक्षा नारकाः, भवतोऽप्यनुमानगम्याः, सातच्चेदमनुमान-विद्यमानोत्कृष्टं प्रकृष्टपापफलं कर्मफलत्वात् पुण्यफलवत्, न च तिर्यडुरा एवं प्रकृष्टपापफलभुजः,
तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात् , अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथा आगमप्रमाणगम्याश्चैते,
Jain Education International
For Private & Personal use only
www.jainelibrary.org