Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 270
________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥४३२॥ GARCANESANCHAR | तस्यानुपलभ्भात, तथाहि-नास्ति गुणातिरिको जीवः, प्रमाणेनानुपलब्धेः, रूपाद्यर्थान्तरभूतघटवत्, यदप्युक्तं प्राक| सामायि'आत्मा खलु सामायिक मिति तदपि यदेतत् ज्ञानादित्रिकरूपं सामायिकं स एव जीवस्य गुण इतिकृत्वा उपचारतो- द्रव्यपभिहितं, यथा शुक्लः परः पीता हरिद्रा कृष्णो भ्रमर इति, तत्त्वतस्तु स एव गुणः सामायिकमिति ॥ सम्प्रति पर्यायार्थिक योयएव स्वं पक्षं समर्थयमान आह विचारः उप्पज्जति वयंति य परिणामति अ गुणा न दवाई । दधप्पभवा य गुणा, न गुणप्पभवाइं दवाइं ॥ ७९३ ॥ उत्पद्यन्ते-उत्पत्तिमासादयन्ति व्ययन्ते-विनाशमुपगच्छन्ति, चशब्दः समुच्चये, तथा परिणमन्ति-सङ्ख्यातीतानि तारतम्यानि अनुभवन्ति प्रतिक्षणम् , अन्यथाऽन्यथा प्रायस्तरतमभावात् , चशब्द एवकारार्थः, स चावधारणे, तस्य चैवंद प्रयोगो-गुण एव, न द्रव्याणि, तेषामाकालमेकरूपत्वेनावस्थानाभ्युपगमात्, उक्तं च-"जीवे दवट्ठयाए सासए पज्जवढयाए असासए" इति, ततस्त एव गुणास्तत्त्वतः सन्ति, उत्पादव्ययपरिणामोपेतत्वात् , पत्रगतनीलतारक्ततादिवत् , तदतिरि-13 कस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वात्, गगनेन्दीवरवत्, उक्तं च-"उप्पायविगमपरिणामतो गुणा पत्तनीलयाइव । संति न उ दवमिह तबिरहातो खपुषंव ॥१॥" (विशे. २६४९) किंच-दवप्पभवा व गुणा' द्रव्यात्प्रभवः-उत्पादो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, किन्तु परस्परप्रत्ययभावप्रभवाः, 'न गुण-18 ॥४३२॥ प्पभवाइं दवाई' इति अत्रापि नेति सम्बध्यते, नापि गुणप्रभवानि द्रव्याणि, तेषां नित्यत्वेनाभ्युपगमात्, ततो न द्रव्याणां कारणत्वं नापि कार्यत्वमिति तदभावः, सतो नियमेन कारणरूपतया कार्यरूपतया वा सम्भवात् , तथा च नास्ति परा Jain Education Inter For Private & Personal use only Ruw.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308