Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
न्धः, चतुर्णामपि सामायिकानां प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्च नियमादस्ति, ज्ञानावरणदर्शनावरणान्तरायमोहनीय है।
जघन्यस्थितिकस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते, न तु प्रतिपद्यमानको, देशविरतिसामायिकस्य हतुभयविकलः, घातिकर्मचतुष्टयजघन्यस्थितौ वर्तमानः क्षपकः सूक्ष्मसम्परायादिर्भवति, न शेषः, ततः स यथोक्तस्वरूप
एव, वेदनीयायुर्नामगोत्रजघन्यस्थितिकः पुनः सम्यक्त्वसामायिकसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नोऽस्ति, नतु प्रतिपद्यमानकः, श्रुतसामायिकदेशविरतिसामायिकयोस्तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानका, वेदनीयादिजघन्यस्थितिको हि चरमसमये वर्तमानोऽयोगिकेवली, ततः स उक्तस्वरूप एव भवतीति, संसारापेक्षया त्वायुःकर्मजघन्यस्थितिचिन्तायां | क्षुल्लकभवोऽवाप्यते, तत्र च वर्तमानो जीवो निगोदादिश्चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य तथारूपपरिणामासम्भवात् ॥ सम्प्रति वेदद्वारं संज्ञाद्वारं कषायद्वारं च व्याचिख्यासुराह
चउरोऽवि तिविहवेए चउमुवि सन्नासु होइ पडिवत्ती। हिट्ठा जहा कसाएसु वन्नि तहय इहयंपि ॥८१८॥
चत्वार्यपि सामायिकानि त्रिविधवेदे-स्त्रीपुंनपुंसकलक्षणे पूर्वप्रतिपन्नानि नियमतःसंप्रति प्रतिपद्यमानानि च सम्भवन्तीति वाक्यशेषः, किमुक्तं भवति ?-त्रिविधेऽपि वेदे चतुर्णामपि सामायिकानां विवक्षितकाले पूर्वप्रतिपन्ना नियमेन विद्यन्ते, प्रति-15 पद्यमानकास्तु भाज्या इति, अवेदकः सम्यक्त्वसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नो नियमेन लभ्यते, सयोगिकेवलिनां सदैव भावात् , श्रुतसामायिकस्य तु कदाचिल्लभ्यते कदाचिन्न, क्षीणवेदक्षपकसम्भवेऽवाप्यते, न शेषकालमिति भावः, प्रतिपद्यमानकस्तु त्रयाणामपि न सम्भवति, देशविरतिसामायिकस्य तुभयविकलद्वारं । तथा चतसृष्वपि संज्ञासु-आहा
ACAMER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308