Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ Jain Education International पद्यते सामायिक, सङ्किष्टाध्यवसायत्वात्, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु चतुर्णामपि सामायिकानां भवतीति । सम्प्रति वेदनाद्वारं समुद्घातक्रियाद्वारं च प्रतिपिपादयिषुराह- दुविहार वेअणाए पडिवजह सो चउण्हमन्नयरं । असमोहओवि एमेव पुइपडिवन्नए भयणा ॥। ८२४ ॥ द्विविधायामपि सातासातरूपायां वेदनायां सत्यां प्रतिपद्यते स जीवश्चतुर्णामपि सामायिकानामन्यतरत् सामायिकं, प्राक्प्रतिपन्नस्तु नियमादस्ति, 'असमोहतोऽवि एवमेव त्ति असमवहतोऽपि वेदनादिसमुद्घातरहितोऽपि एवमेव - पूर्वोकन्यायेन वेदितव्यः, सोऽपि चतुणां सामायिकानामन्यतरत् सामायिकं प्रतिपद्यमानः संभवति, प्राक्प्रतिपन्नस्तु नियमाद्विद्यत इत्यर्थः, समवहतस्तु केवलि समुद्घातादिना सप्तविधसमुद्घातेन न किञ्चित्प्रतिपद्यते, किन्तु 'पुछपडिवन्नए भयणा' इति पूर्वप्रतिपन्न के समवहते विचारयितुमारब्धे भजना - समर्थना कार्या, यथा समवहंता सामायिकद्वयस्य त्रयस्य वा प्राक्प्रतिपन्नो लभ्यते, तत्र केवलिसमुद्घाते सम्यक्त्वचारित्रसमायिकद्वयस्य पूर्वप्रतिपन्नकः, शेषसमुद्घातेषु पुनः सम्यक्त्वश्रुतसामायिकद्वयस्य यदिवा सम्यक्त्वश्रुतदेशविरतिसामायिकत्रयस्य अथवा सम्यक् श्रुतसर्वविरतिसामायिकत्र्यस्येति, समुद्घातश्च सष्टविधो, यतोऽन्यत्रोक्तं - "केव लिकसायमरणे वेयणा विडवितो य आहारे । सत्तविह समुग्धातो पण्णत्तो वीयरागेहिं ॥ १ ॥ " गतं द्वारद्वयम् । अधुना निर्वेष्टनद्वारप्रतिपादनार्थमाह वेण य भावेण य निवेडितो चउण्हमन्नपरं । नरएस अणुइट्टे दुग तिग चउरो सिउबट्टे ।। ८२५ । नर्वेष्टनं द्विधा द्रव्यतो भावतश्च तत्र द्रव्यतः कर्म्मप्रदेशविसंघातरूपं, भावतः क्रोधादिहानिलक्षणं, तत्र सर्वमपि कम् For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308