Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 303
________________ . ४ा धिकृत्योभयथापि भवतीति, देवेष्वनुत्तः सन् प्रथमं सामायिकद्वयमाश्रित्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु नियमादस्ति, 'चउकं सिया उ उवहे' इति देवेभ्य उद्धृत्तः सन् चतुष्कमाश्रित्योभयथापि लभ्यते, स्यात्शब्दग्रहणात्। त्रिकं द्विकं च, इयमत्र भावना-देवेभ्य उद्वत्तः सन् तिर्यक्ष्वायातः प्रथमं सामायिकत्रिकं द्विकं वा प्रतिपद्यमानः प्राक्प्रतिपन्नश्च लभ्यते,मनुष्येष्वायातःसामायिकचतुष्टयमपीति,उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिःन किञ्चित्यतिपद्यते, प्राक्प्रतिपन्नस्त्वाद्ययोः सामायिकयोर्लभ्यते ॥ आश्रवकरणद्वारमाह-- नीसवमाणो जीवो पडिवाइ सो चउण्हमन्नयरं । पुवपडिवन्नओ पुण सिअ आसवओ व नीसवओ ॥८२८॥ यत् सम्यक्त्वादिसामायिकं प्रतिपद्यते तदावारकं कर्म मिथ्यात्वमोहनीयादिकं निश्रावयन्-निजरयन् शेषकमानुबभन्नपि जीवः प्रतिपद्यते चतुर्णामन्यतरत्, किमुक्तं भवति?-चत्वार्यपि यथायोगमेवं प्रतिपद्यते, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको वा-बन्धकः निःश्रावको वा-निर्जरकः, वाशब्दस्य व्यवहितः सम्बन्धः, आह-निर्वेष्टनद्वारादस्य कः प्रतिविशेषः?, उच्यते, निर्वेष्टनं नाम कर्मप्रदेशविसङ्कगतरूपं, ततोऽनेन क्रियाकालो गृहीतः, निःश्रवणं तु निजरा, ततोऽनेन निष्ठाकालो गृहीत इति भेदः, अथवा प्राक् संवेष्टनवक्तव्यताऽर्थतोऽभिहिता, इह तु साक्षादिति ॥ साम्प्रतमलङ्कारशयनासनचमणद्वारकदम्बकं व्याचिख्यासुराह उम्मुक्कमणुम्मुक्के उम्मुच्चंते य केसअलंकारे । पडिवजेजऽनयरं सयणाईसुपि एमेव ।। ८२९ ॥ उन्मुक्के-परित्यके अनुन्मुक्ते-अपरित्यक्ते, अनुस्वारोऽलाक्षणिकः, उन्मुंश्च केशालङ्कार-केशोपलक्षितः कटकक - - - Jain Education Inter For Private & Personal use only How.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308