Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
हारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्यः स्यात्-कदाचिद्विवक्षितकाले भवेत् कदाचिन्न दापूर्वप्रतिपन्नः, प्रतिपद्यमानस्तु नियमान्न सम्भवतीति वाक्यशेषः, केवली तु समुद्घातावस्थायां शैलेश्यवस्थायां वाऽनाहा-6 रकः सम्यक्त्वसामायिकसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नः कदाचित् स्यात्, प्रतिपद्यमानकस्तु नैव, सिद्धस्तु सम्यक्त्वसामायिकस्य प्रतिपन्नो नियमादस्ति, प्रतिपद्यमानको नैव, इतरेषां तु त्रयाणामपि सामायिकानामुभयथापि तस्य | प्रतिषेधः, अपर्याप्तोऽपि सम्यक्त्वश्रुतसामायिके अङ्गीकृत्य स्यात् सम्भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नियमानास्ति, देशविरतिसर्वविरतिसामायिकयोः पुनरुभयथापि तस्य प्रतिषेधः॥ सम्प्रति सुप्तजन्मरूपद्वारद्वयव्याचिख्यासयेदमाहनिदाइ भावओऽविअ जागरमाणो चउण्हमन्नयरं। अंडय-पोअ-जराज्य तिअतिअचउरो भवे कमसो॥८१६॥
इह सुप्तो द्विधा-द्रव्यसुतो भावमुप्तश्च, एवं जाग्रदपि, तत्र द्रव्यसुप्तो निद्रया, भावसुतस्तु मिथ्यादृष्टिरज्ञानी, तथा द्रव्यजागरो निद्रारहितः, भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णा सामायिकानां प्राग्वदन्यतरत् | प्रतिपंद्यमानः सम्भवतीति भावः, पूर्वप्रतिपन्नस्तु नियमादस्त्येवेति भावः, अपिशब्दो विशेषणे, स चैतद्विशिनष्टि-भावजागरः सम्यक्त्वसामायिक श्रुतसामायिकयोर्व्यवहारनयमतेन तु प्रतिपद्यमानकोऽपि देशविरतिसर्वविरतिसामायिकयोः पुनर्भयद्वयमतेनापि पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्यमानकस्तु भाज्या, निद्रासुप्तस्तु चतुर्णामपि सामायिकानां पूर्वग्र|तिपनो नियमादस्ति, न तु प्रतिपद्यमानको, निद्राप्रभावतस्तथारूपचित्तशुवादिसामग्र्यसम्भवात् , भावसुप्तस्तूभयविकलः, वस्य मिथ्यादृष्टित्वात्, यदि निश्चयनयमन सम्यग्दृष्टिः सम्यक्त्वं प्रतिपद्यते व्यवहारनयमतेन तु मिथ्यादृष्टिरतो व्यव
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308