Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 284
________________ श्रीआवइयक मल ॥ ४३९॥ एव दिक् भावदिक् सा च यथा भवत्यष्टादशविधा तथा प्रतिपादयति- पुढवि-दल- जळण - वाया मूल-संघ -म- पोर बीआय । बि-ति-चर- पंचिंदिय तिरिय नारया देवसंघाया ॥ १ ॥ संमुच्छिमकम्माकम्मभूमिग नरा तहंतरद्दीवा । भावदियः वृत्ती- ॐ सा दिस्सइ जं संसारी निययमे आहिं ॥२॥ ( आचा. नि. ) पृथिवी - मृत्तिका, जलम् - आपः, ज्वलनो - वैश्वानरः, वातः पवनः, उपोद्घाते * 'मृलखंधग्गपोरबीया य' इति बीजशब्दस्य प्रत्येकमभिसम्बन्धात् मूलबीजाः स्कन्धबीजा अग्रबीजाः पर्वबीजा इति द्रष्टव्यं, तत्र मूलं बीजं येषां ते मूलवीजा:- उत्पलकन्दादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः - शलक्यादयः, अनं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः, पर्व बीजं येषां ते पर्वबीजा: - इक्ष्वादयः, द्वीन्द्रिया- कृम्यादयः, त्रीन्द्रियाः- कीटिकादयः, चतुरि न्द्रिया-भ्रमरादयः, पश्चेन्द्रियाः - तिर्यञ्चः सिंहसरभगोमहिष्यजादयः, नारका - रत्नप्रभापृथिवीनारकादयः, देवसङ्घाताभवनपत्यादयः, नराश्चतुर्विधाः, तद्यथा - सम्मूच्छिमाः कर्म्मभूमका अकर्म्मभूमकास्तथा आन्तरद्वीपाः, तत्र सम्मूच्छिमा- वान्तादिसमुद्भवाः, कर्म्मभूमकाः - पञ्चदशकर्म्मभूमिजाताः, अकर्म्मभूमकाः - त्रिंशदकर्मभूमिजाताः (अन्तरद्वीपकाः ) पटूपश्चाशत्यन्तरद्वीपेषु जाताः, एवमेता अष्टादशभेदा भावतः - पृथिव्यादिपर्यायतो दिशो भावदिशः, कस्मात् दिक्त्वमेतासामत आह-यत: - यस्मात् संसारी नियतम् - अवश्यंभावेन एताभिर्दिश्यते - अपदिश्यते तत एता दिशः ॥ इह नामस्थापनाद्रव्य दिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तथा चाह चूर्णिकृत् - " एत्थं पुण चउहिं दिसाहिं अहिगारो - खेचदिसतावखेत्तपन्नवगं भावदिसाहिं, नामादी तिनि परूवणानिमित्तं”ति ॥ तत्र क्षेत्रदिशोऽधिकृत्य तावदाह Jain Education le For Private & Personal Use Only सामायिके क किमि तिद्वारे दिग्द्वारं ॥४३९॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308