Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
COCCALCCCCCCCCCA-90%
हाराणुसारओसेसया पयाहिणओ। अट्ठ य तिरियदिसाओ उहूं विमला तमा वाऽहो॥१॥ऐन्द्री दिक् विजयद्वारानुसारतः प्रतिपत्तव्या, यत्र विजयद्वारं साऐन्द्रीति भावार्थः, शेषाः सप्त ऐशानीपर्यन्तास्तस्याः प्रदक्षिणात:-प्रादक्षिण्येन बोद्धव्याः, ताश्च तथैव प्राग्भाविताः, एताश्चाष्टावपि रुचकात् (तिर्यक) प्रव्यूढत्वात् तिर्यग्दिश इति व्यवहियन्ते, रुचकादू प्रवृत्ता विमला, रुचकस्याधः प्रवृत्ता तमा इति । उक्ता क्षेत्रदिक, सम्प्रति तापक्षेत्रदिकू वक्तव्या, तत्र तपनं तापः सूर्यकिरणस्पर्शाजनितःप्रकाशात्मकः परितापः तदुपलक्षित क्षेत्रं तापक्षेत्रं तदेव दिक्, अथवा तापयतीति तापः-सविता तदनुसारेण क्षेत्रात्मिका दिक्तापक्षेत्रदिकू, सा च सूर्यायत्तत्वादनियता, तथा चाह-जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुवा । तावक्खित्तदिसाओ पयाहिणं सेसयाओसि ॥॥(आचा.नि.४१) येषां-भरतादिक्षेत्रनिवासिनां मनुष्याणां यतो-यस्यां दिशि सूर्य उदेति-उद्गच्छति सा तेषां पूर्वा भवति, पूर्वेति व्यवहियते, तासां चैवमनियतानां पूर्वदिशां प्रदक्षिणं-प्रादक्षिण्येन शेषा अपिआग्नेय्यादिकास्तापक्षेत्रदिशः प्रतिपत्तव्याः, एवं च सति सर्वेषामपि भरतैरावतपूर्वविदेहापरविदेहवास्तव्यानां मनुष्याणां | मेरुरुत्तरतो लवणसमुद्रो दक्षिणतः, उक्का तापक्षेत्रदिक, साम्प्रतं प्रज्ञापकदिग वाच्या, तत्र प्रज्ञापयति-सूत्रार्थ प्ररूपयति शिष्येभ्य इति प्रज्ञापको-व्याख्याता तदाश्रयेण दिक् प्रज्ञापकदिक, तत्स्वरूपनिरूपणार्थमाह-पन्नवओ जयभिमुहो सा पुवा सेसिआ पयाहिणओ। तस्सेवऽणुगन्तबा अग्गेआई दिसा नियमा॥१॥ प्रज्ञापको यस्या दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वाग्नेय्यादिका दिशो नियमात् तस्यैव प्रज्ञापकस्य प्रदक्षिणातः-प्रादक्षिण्येनानुगन्तव्याः। उक्का प्रज्ञापकदिक, सम्प्रति भावदिगु वक्तव्या, सा चाष्टादशविधा, दिश्यते अयममुकासंसारीति यया सा दिक् भावः-पृथिवीत्वादिलक्षणः पर्यायः स
मा.सू.७४
Jain Education in
For Private & Personal use only
(
ww.jainelibrary.org

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308