Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
न्तानां स्कन्धानामवगाहेऽपि अधिकृतत्रयोदशप्रदेशावगाढस्कन्धत्वपरिणाममापन्नानामवगाहनासम्भवात्, उत्कर्षतस्त्वसइरूयातप्रदेशावगाढमिति । सम्प्रति क्षेत्रदिकूप्रतिपादनार्थ रुचकवक्तव्यतामाह
अहपएसोरुभगो तिरिअंलोगस्स मज्झयारम्मि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं॥१॥(आचा.४२) तिर्यग्लोकस्य मध्यकारे-मध्येऽष्टप्रदेशक:-अष्टनभःप्रदेशात्मको रुचका, तथाहि-तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां रजुप्रमाणौ सर्वप्रतराणां क्षुल्लको द्वौ नभम्प्रदेशप्रतरौ, तयोश्च मेरुमध्यप्रदेशे मध्यं, तत्र च मध्ये उपरितनप्रतरस्य% ये चत्वारो नभ-प्रदेशा ये चाधस्तनस्य चत्वारस्तेषामष्टानामपि गोस्तनाकाररूपतया व्यवस्थितानामाकाशप्रदेशानां समये रुचक इति परिभाषेति, एष रुचको दिशां-क्षेत्रदिशांपूर्वादीनांप्रभव:-उत्पत्तिकारणम्, एष एव च भवति प्रभवोऽनुदिशाक्षेत्रविदिशामाग्नेय्यादीनामिति ॥ सम्प्रत्यस्माच्च रुचकादिशो विदिशश्च यथा भवन्ति तथा प्रतिपादयन्नाहदुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव। चउरो चउरोय दिसा चउराइ अणुत्तरा दुन्नि॥(आचा. नि.४३) द
सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली अचउरो दो चेव य हुँति रुअगनिभा॥ (आचा. नि. ४४) तस्मात् यथोक्तरूपात् रुचकात् बहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नभ प्रदेशौ भवतः, तदअंतश्चत्वारश्चत्वारः, तेषामपि पुरतः षट् षद् , ततोऽप्यग्रतोऽष्टावष्टावित्येवं द्वाभ्यां प्रदेशाभ्यामारम्य धुत्तरवृद्धिःप्रत्येकं चतसृष्वपि दिक्षु परिभावनीया, तथा चाह-दुपएसाइ दुरुत्तर' अत्र 'चउरों' इति सम्बन्धः, चतस्रः पूर्वादिका महादिशो द्विप्रदेशादयो
RAASE
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308