Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 285
________________ पुवाइआसु महादिसासु पडिवजमाणओ होइ । पुषपडिवनओ पुण अन्नयरीए दिसाए उ॥१०॥ पूर्वादिकासु क्षेत्रतो महादिक्षु विवक्षिते काले सर्वेषामपि सामायिकानां प्रतिपद्यमानको भवति, न न भवति, तत्सम्भवस्त्वस्ति, न पुनर्भवत्येव, कदाचित्तस्य तास्वभवनात्, पूर्वप्रतिपन्नः पुनश्चतुर्णामपि सामायिकानामन्यतरस्यां दिशि भवत्येव, पुन शब्दस्यैवकारार्घत्वात्, न पुनर्न भवति, एतदपि सामान्येनोक, विशेषतस्त्वेवमवंगन्तव्यम्-त्रयाणां सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानां चतसृष्वपि पूर्वादिकासु महादिक्षु नियमेन पूर्वप्रतिपन्नकोऽस्ति, सर्वविरतिसामायिकस्य तु पूर्वापरदिशोर्नियमेन, दक्षिणोत्तरयोस्तु भजनया,एकान्तदुष्पमादिकाले भरतैरावतेषु सर्वविरतेरुच्छेदात, विदिक्षु पुनश्चतसृष्वपि तथा ऊर्ध्वाधोदिगद्वये च चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानका, ताखेकप्रादेशिकत्वेन चतुष्प्रादेशिकत्वेन च जीवावगाहनानामसम्भवात् , स्पर्शनामात्रं भवेदपि पुनः, तथा चाह भाष्यकार:"छिन्नावलिरुअगागिइदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुण फुसिज्जा॥॥” (वि. २७०) तापक्षेत्रप्रज्ञापकदिशावधिकृत्याह-अट्ठसु चउण्ह नियमा पुवपवन्नो उदोसुदुण्हेव । दुण्ह उ पुवपवन्नो सिअनन्नो तावपन्नवए ॥२॥ तापक्षेत्रविषये प्रज्ञापकविषये च पुनरष्टसु पूर्वादिकासु दिक्षु चतुर्णामपि समायिकानां नियमात् पूर्वप्रतिपन्नोऽस्ति, प्रति पद्यमानस्तु भाज्य:-कदाचिद्भवति कदाचिन्नेति, तथा दयो:-ऊर्ध्वाधोरूपयोदिशोःदयोः-सम्यक्त्वसामायिकश्रुतसामादिायिकयोरेवं पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्यमानकस्तुभाज्य इत्यर्थः, 'दोण्ह उ' इत्यादि, द्वयोः पुनः देशविरतिसामायि-1 कसर्वविरतिसामायिकयोरूर्वाधोदिशोः स्यात्-भजनया पूर्वप्रतिपन्नः, कदाचिद्भवति कदाचिन्नेति, अन्यः पुनः प्रतिपद्य CADAKAMGESCAMERASAX Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308