Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 271
________________ मा. सू. ७३ Jain Education Inte भिमतं द्रव्यं, कारणकार्यरूपविकलत्वात्, खरविषाणवत्, अस्तित्वं हि नामार्थक्रियाकारित्वं, 'यदेवार्थक्रियाकारि तदेव परमार्थस' दिति वचनात्, सर्वा अर्थक्रियाकारिता कारणकार्यरूपत्वेन व्याप्ता, द्रव्यस्य कारणकार्यरूपविकलस्यार्थक्रियाया अदर्शनात् किं हि तदस्ति वस्तु यदकारणरूपमकार्यरूपं वा सत् अर्थक्रियां कुर्यात् ?, ततः कारणकार्यरूपत्वं व्यावत्तंमानं स्वव्याप्यमप्यस्तित्वं निवर्त्तयतीति व्यापकानुपलब्धिरेषा, तस्माद् गुण एव समभावलक्षणः सामायिकमिति । एवं पर्यायार्थिकेन स्वमते प्रतिपादिते द्रव्यार्थिक आह जं जे जे भावे परिणमइ पओग-वीससा दवं । तं तह जाणेइ जिणो अपज्जवे जाणणा नत्थि ॥ ७९४ ॥ यत् यत् आत्ममृदादिकं वस्तु यान् यान् भावान्- पर्यायान् विज्ञानघटादीन् परिणमति तदात्वेन प्रतिपद्यते प्रयोगतो विवसातो वा, तत्र प्रयोगश्चेतनावतो व्यापारः, विस्वसा स्वभावः, तत्सर्वमुत्प्रेक्षितपर्यायं द्रव्यमेव, उत्फणविफणत्वकुंडलिका दिपर्यायसमन्वितसर्प्यद्रव्यवत्, तथाहि - न तत्र केचन उत्फणतादयः सर्पद्रव्यातिरिक्ताः पर्यायाः सन्ति, प्रमानानुपलब्धेः, गगनकुसुमस्य मुकुलितार्द्धमुकुलितत्वादिपर्यायवत् तस्मात्तदेव द्रव्यं, तत्र (च्च) परमार्थसदिति । किचतत् द्रव्यं तथैव - अन्वयपर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनो - भगवान् केवली, कस्मात् पर्यायोपसर्जनं जानाति, नतु पर्यायरहितमित्यत आह-'अपजवे जाणणा नत्थित्ति' अपर्याये - पर्यायरहिते यतो जाणणा-परिज्ञा केवल्यादीनामपि नास्ति, ततस्ते उत्प्रेक्षामात्रेण व्यवह्रियन्ते, नतु परमार्थतः सन्ति, ततो द्रव्यमेव तात्त्विकमिति जीव एव सामायिकमिति | गाथार्थः । अथवा 'दप्पभवा य गुणा' इत्यादि द्रव्यार्थिकनयमतेन व्याख्यायते, उत्पद्यन्ते व्ययन्ते परिणमन्ति च यस्मात् For Private & Personal Use Only • Bww.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308