Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 273
________________ CXXX सम्यक्त्वसामायिकं विविधं, तद्यथा-निसर्गसम्यक्त्वसामायिकमधिगमसम्यक्त्वसामायिकं च, तत्र निसर्गः स्वभावः, तेन सम्यक्त्वसामायिक निसर्गसम्यक्त्वसामायिकं, यदुपदेशमन्तरेणापि जीवस्य तथास्वभावत एवोपजायते तनिसर्गसम्यक्त्वसामायिकमिति भावः, परोपदेशतो जीवादिपदार्थाधिगमपुरस्सरमुपजायते तदधिगमसम्यक्त्वसामायिक, अथवा दशविधम्' एकैकस्य औपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् , तत्र औपशमिकमुपशमश्रेणी प्रथमसम्यक्त्वलाभे वा अन्तरकरणव्यवस्थितस्य, सास्वादनमौपशमिकसम्यक्त्वाद्धायां व्यवस्थितस्य मिथ्यात्वं गन्तुमनसो मिथ्यात्वमनावस्य, क्षायोपशमिकं सम्यक्त्वपुद्गलान् वेदयमानस्य, वेदकं दर्शनत्रिक क्षपयतश्चरमग्राससम्यक्त्वाणुवेदनस्वभावं, क्षायिक दर्शनत्रिकक्षयनिष्पन्नं शुद्धात्मस्वभावरुचिरूपं, अथवा त्रिविध-क्षायिकमौपशमिकं क्षायिकं च, सास्वादनस्यौपशमिके वेदकस्य च क्षायोपशमिके अन्तर्भावविवक्षणात्, यदिवा त्रिविधमेवं-कारकं रोचकं दीपकं च, तत्र यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते सम्यक् करोति (च, करोति) सदनुष्ठानमिति कारक, यत्तु सदनुष्ठानं रोचयत्येव केवलं न पुनः कारवति तत् रोचकं, यत् स्वयं तत्त्वश्रद्धान (हीन) एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्त्वश्रद्धानं दीपयति-उत्पादयति तस्य परिणामविशेषः कारणे कार्योपचारात् सम्यक्त्वं दीपकमुच्यते, उक्तं च-"सयमिह मिच्छद्दिट्ठी धम्मकहाईहिं दीवइ परस्स । सम्मत्तमिणं दीवग कारणकज्जोवयारातो॥१॥" श्रुतसामायिकं त्रिविधं, तद्यथा-सूत्रमर्थ-10 स्तदुभयं च, अक्षरानक्षरादिभेदादनेकविधं वा, चारित्रसामायिकं त्रिविध-क्षाविकमौपशमिकं बायोपशमिकं च, तत्र क्षीणमोहादेः क्षायिकम् , उपशान्तमोहस्यौपशमिक, प्रमत्तसंयतादीनां क्षायोपशमिकं, अथवा पञ्चविर्व-सामायिकं छेदोप Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308