Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्विरोधः, उक्तं च-"ननु तिविहंतिविहेणं पच्चक्खाणं सुर्यमि गिहिणोऽवि।तं थूलवहादीणं न सबसावजजोगाणं ॥१॥" (वि. २६८६) अपिच-यत्किश्चिदप्रयोजनं काकमांसादिकं यदपि चाप्राप्यं मनुष्यक्षेत्राहिईन्तिदन्तचित्रकचर्मादिक
तद्विशेषितं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधेनापि प्रत्याचष्टे तथापि न कश्चिद्दोषः, यथा स्वयंभूरमणसमुद्रादिमत्स्या Mमया न हन्तव्याः त्रिविधं त्रिविधेनेति प्रत्याचक्षाणस्य, यदिदा यो व्रतं प्रतिपत्तुकामः पुत्रसन्तत्यादिनिमित्तं विलम्ब कुर्व|न्नेकादशीप्रतिमा प्रतिपद्यते तत्समात्यनन्तरं चावश्यमेव व्रतं ग्रहीष्यति स त्रिविधं त्रिविधेनापि सर्वसावद्ययोगप्रत्याख्यानं कुर्वाणो न दोषभाग् भवति, ये पुनः पूर्वारब्धानुज्झितसावद्यकर्मसन्तानः सन् सामायिकं करोति स त्रिविधं त्रिविधेन प्रत्याख्यानं कर्तुं न शक्नोति, तदनुमतिपरिणतेनिवर्तयितुमशक्यत्वात् , आह च भाष्यकृत्-"जइ किंचिदप्पओयणमप्पप्पं वा विसेसि वत्थु । पच्चक्खेज न दोसो सयंभुरमणाइमच्छव ॥१॥जो वा निक्खमिउमणो पडिमं पुत्ताइसंततिनिमित्तं । पडिवजेज तओ वा करेज तिविहंपि तिविहेणं ॥२॥ जो पुण पुवारद्धाणुज्झियसावज्जकम्मसंताणो। तदणुमइपरिणतिं सो न तरइ सहसा नियत्तेउ ॥३॥” मिति (विशे. २६८७-९) यद्यपि च गृहस्थस्य सामायिक कुर्वतो न त्रिविधं त्रिविधेन प्रत्याख्यानं तथापि तद् गृहस्थेन परलोकार्थिना गृहस्थसामायिकमवश्यं कर्त्तव्यं, तस्यापि |विशिष्टफलसाधकत्वात् , तथा चाह नियुक्तिकृत्
सामाइअम्मि उकए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइअंकुज्जा ॥८०१॥ सामायिके, तुशब्द एवकारार्थः, "तुः स्याद्भेदेऽवधारणे" इति वचनात् , सामायिके एव कृते सति यस्मात् श्रावकः
MARRERANCE
या चाह नियुक्तिवइ जम्हा।
सामायिके एव
Jain Education Intematon
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308