SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ द्विरोधः, उक्तं च-"ननु तिविहंतिविहेणं पच्चक्खाणं सुर्यमि गिहिणोऽवि।तं थूलवहादीणं न सबसावजजोगाणं ॥१॥" (वि. २६८६) अपिच-यत्किश्चिदप्रयोजनं काकमांसादिकं यदपि चाप्राप्यं मनुष्यक्षेत्राहिईन्तिदन्तचित्रकचर्मादिक तद्विशेषितं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधेनापि प्रत्याचष्टे तथापि न कश्चिद्दोषः, यथा स्वयंभूरमणसमुद्रादिमत्स्या Mमया न हन्तव्याः त्रिविधं त्रिविधेनेति प्रत्याचक्षाणस्य, यदिदा यो व्रतं प्रतिपत्तुकामः पुत्रसन्तत्यादिनिमित्तं विलम्ब कुर्व|न्नेकादशीप्रतिमा प्रतिपद्यते तत्समात्यनन्तरं चावश्यमेव व्रतं ग्रहीष्यति स त्रिविधं त्रिविधेनापि सर्वसावद्ययोगप्रत्याख्यानं कुर्वाणो न दोषभाग् भवति, ये पुनः पूर्वारब्धानुज्झितसावद्यकर्मसन्तानः सन् सामायिकं करोति स त्रिविधं त्रिविधेन प्रत्याख्यानं कर्तुं न शक्नोति, तदनुमतिपरिणतेनिवर्तयितुमशक्यत्वात् , आह च भाष्यकृत्-"जइ किंचिदप्पओयणमप्पप्पं वा विसेसि वत्थु । पच्चक्खेज न दोसो सयंभुरमणाइमच्छव ॥१॥जो वा निक्खमिउमणो पडिमं पुत्ताइसंततिनिमित्तं । पडिवजेज तओ वा करेज तिविहंपि तिविहेणं ॥२॥ जो पुण पुवारद्धाणुज्झियसावज्जकम्मसंताणो। तदणुमइपरिणतिं सो न तरइ सहसा नियत्तेउ ॥३॥” मिति (विशे. २६८७-९) यद्यपि च गृहस्थस्य सामायिक कुर्वतो न त्रिविधं त्रिविधेन प्रत्याख्यानं तथापि तद् गृहस्थेन परलोकार्थिना गृहस्थसामायिकमवश्यं कर्त्तव्यं, तस्यापि |विशिष्टफलसाधकत्वात् , तथा चाह नियुक्तिकृत् सामाइअम्मि उकए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइअंकुज्जा ॥८०१॥ सामायिके, तुशब्द एवकारार्थः, "तुः स्याद्भेदेऽवधारणे" इति वचनात् , सामायिके एव कृते सति यस्मात् श्रावकः MARRERANCE या चाह नियुक्तिवइ जम्हा। सामायिके एव Jain Education Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy