Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 261
________________ तापयत्यष्टप्रकारं कम्र्मेति तपः, तपतेरौणादिकोऽसूप्रत्ययः, अनशनोनोदरतादि तत्प्रधानः संयमतपःसंयमः, असावनमत:-अभीष्टो मोक्षांगतया, तथा निर्ग्रन्थानामिदं नैन्यं, आहेतमित्यर्थः, किं', प्रवचन-श्रुतं, इह तपोग्रहणेन द्वादशप्रकारमपि तपः परिगृह्यते, संयमो नाम पापोपरमः, स च सप्तदशप्रकारः, एतेन च चारित्रसामायिकं परिगृहीतं, नैन्थं प्रवचन-श्रुतं, चशब्दः सम्यक्त्वादिसामायिकसमुच्चयार्थः, विवहारो'त्ति एवं व्यवहारो व्यवस्थितः,व्यवहारग्रहणात् तदधोवर्तिनी नेगमसंग्रहावपि गृहीती, तत एतदुक्तं भवति-नैगमसङ्ग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते | इति । आह च भाष्यकृत्-कस्स नयस्साणुमयं किं सामइयमिह मोक्खमग्गोत्ति । भण्णइ नेगमसंगह-यवहाराणं तु सबाई शतवसंजमा चरितं निग्गंथं पवयणंति सुयनाणं । तग्गहणे सम्मत्तं तग्गहणातो य नायवं ॥२॥ (विशे. २६२२-३) आह-यदि नेगमादयस्त्रिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते किमिति तर्हि ते मिथ्यादृष्टयः', उच्यते, व्यस्ताना| मेव तेषां तेः मोक्षमार्गतयाऽनुमाननात्, न सापेक्षाणामेवेति, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्गों निर्वाणं संयम एवेत्यनुमतं, इह ऋजुसूत्रमुलझयादौ शब्दनयोपन्यासोऽशेषोपरितननयपरिग्रहार्थः, तत एतदुक्तं भवतिऋजुसूत्रादयः सर्वे चारित्रमेवैकं मोक्षमार्गमनुमन्यन्ते, न ज्ञानदर्शने, तद्भावेऽपि मोक्षासम्भवात् , तथाहि-न सर्वज्ञानसर्वदर्शनलामेऽपि तत्कालमेवापवर्गप्राप्तिः, किन्तु सर्वसंवरलाभे, ततः स एवैको मोक्षमार्ग इति, उक्कं च-"उज्जुसुयाइमयं पुण निवाणपहो चरित्तमेवेगं । न उ नाणदसणाई भावेवि न तेसि जं मोक्खो ॥१॥जं सबनाणदसणलंभेवि न तक्षणं चिय विमोक्खो। मोक्खो य सबसंवरलाभे मग्गो स एवातो॥२॥" (विशे. २६२५-६) एवं ब्रुवाणान् ऋजुसूत्रप्रभृतीन् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308